राजा-युक्तम् । अथ केनेदानीं आत्मानं विनोदयामि ?
विदूषकः-भो! महाणसं गच्छम्ह । [भो ! महानसं गच्छावः।]
राजा-किं तत्र ?
विदूषकः-तहिं पंचविहस्स अब्भवहारस्स उवणदसंभारस्स जोअणां पेक्खमाणेहिं सक्कं उक्कंठां विणोदेदुम् । [तत्र पञ्चविधस्याभ्यवहारस्य उपनतसम्भारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठां विनोदयितुम् ।]
राजा-तत्रेप्सितसन्निधानाद्भवान् रंस्यते । मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः ? |
विदूषकः—णं भवं वि तत्तभोदीए उव्वसीए दंसणपहं गदो । [ननु भवानपि तत्रभवत्या उर्वश्याः दर्शनपथं गतः।]
राजा -ततः किम् ।
राजा-युक्तम् । साधु वदसि, यतः सन्तुष्टो राजा यदनेन सम्यक् रहस्यरक्षा विहितेति । अथेदानीं केन उपायेन कथं वा आत्मानं विनोदयामि । किमपि अनुकूलं न लगति तेन कथं मनोरञ्जनं कर्तव्यम् इति पृच्छति विदूषकम् निजं नर्मसचिवं राजा।
विदूषकः-भोः! महानसं पाकशालां भोजनशालां रसवतीं वा प्रति गच्छावः क्षुधाशमनाय । अनेन विदूषकस्य भोजनमात्रे एव मनोविनोदः भवतीति सूचितम् ।
राजा-पृच्छति नायकः तावत् तत्र महानसे किं मनोविनोदाय प्राप्स्यावः इति ।
विदूषकः -तत्र पञ्चविधस्य लेह्यचोप्यपेयभक्ष्यभोज्यात्मकस्य नानारसमयस्य उपनतसंभारस्य पच्यमानस्य अभ्यवहारस्य अशनीयस्य योजनां विधिं प्रेक्षमाणाभ्याम् उत्कण्ठा विनोदयितुं शक्या । तत्र भोजनपाकस्य विधिं दृष्ट्वा मनोविनोदः स्यादिति संभवः ।
राजा-भवान् तावत् भवतः ईप्सितस्याभिलषितस्य वस्तुनः तत्र सन्धानात् योगात् लाभाद्वा रंस्यते विनोदितो भविष्यति । किन्तु मम पुनः कथं मनोविनोदो भविष्यति यतः दुर्लभप्रार्थनः दुर्लभेष्टः अहमस्मि, यन्मया इष्यते तत्तु दुर्लभम् तेन कथं वा सम्भवो मदीयमनोरञ्जनस्य इति भावः ।
विदूषकः :-ननु इति प्रश्ने । भवान् अपि तत्रभवत्याः उर्वश्या दर्शनपथं गतः । किं भवान् तया दृष्टो न वा ? विदूषकोऽयमिह तस्य दुर्लभप्रार्थनत्वं पराकर्तुमिदं पृच्छति ।
राजा-ततः किम्-दृष्टोऽस्मि तया -किन्तु तेन किमभूत् ?
५ विक्र०