पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५१

पुटमेतत् सुपुष्टितम्
५३
द्वितीयोऽङ्कः

 विदूषकः-सरिसो एव्व से अहिणिवेसो [ सदृश एवास्याभिनिवेशः] (इति परिक्रामन् ) एदं पमवणम् [इदं प्रमदवनम् ] पविसदु भवम् । [प्रविशतु भवान् । ]

 राजा -वयस्य ! प्रविशाग्रतः।

(उभौ प्रवेशं नाटयतः।)

 राजा-(त्रासं रूपयित्वा) वयस्य ! साधु मनसा समर्थितः आपत्प्रतीकारः किल ममोद्यानप्रवेशः । तच्चान्यथैवोपपन्नम् ।

  विविक्षोर्यदिदं नूनमुद्यानं नाघशान्तये ।
  स्रोतसेवोह्यमानस्य प्रतापतरणं महत् ॥ ५ ॥


 “कामीवे"त्यत्र उपमालङ्कृतिः । अनेन च माधवीकौन्दीलतयोर्ज्येष्ठाकनिष्टानायिकाविशेषत्वप्रकाशनेन उर्वशीकाशीराजदुहित्रोर्ज्येष्ठाकनिष्ठिकाभावं गमयन् समासोक्त्यलङ्कारभङ्ग्या राज्ञः उर्वश्यां स्नेहनिषेकश्च काशिराजदुहितरि केवलं दाक्षिण्यमेवेति प्रदर्शयन् नायकमुखेन नायिकाविषयकं बहुमानं सूचयति तत्रभवान् महाकविः कालिदासः । तेन च नायकस्य शठत्वं ध्वन्यते । यदुक्तं-"गूढविप्रियकृच्छठः ।" समासोक्तिलक्षणं तु यथा दर्पणे, "समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः।"

अनुष्टुब् वृत्तम् ॥ ४॥

 विदूषकः -सदृशः उचित एवान्यानिनिवेशः । अस्य वायोः योग्या एव प्रीतिः । अभिनिवेशः प्रीतिराग्रहे वा । (इति परिक्रामन् विचरन् ) इदं प्रमदवनम् , भवान् प्रविशतु । 'ईदृश' इति पाठान्तरे सत्यमेतादृश एवेत्यर्थः ।

 राजा-वयस्य माणवक ! प्रविशाग्रतः। प्रथमं त्वमेव प्रविश ।

(उभौ राजविदूषको प्रवेशं नाटयतः दर्शयतः।)

 राजा-(त्रासं खेदं रूपयित्वा प्रकटयन् ) वयस्य ! मम मनसा उद्यानप्रवेशः आपदः खेदस्य प्रतीकारः निराकरणहेतुः भविष्यतीति पूर्वं साधु सम्यक् विचारितमासीत् । किन्तु तच्च अन्यथैव उपपन्नम्-विपरीतं जातम् । विविक्तसेवनं मम खेदनिराकरणं भविष्यतीति मया प्रागुचितमेव विचारितम् अभवत् किन्त्वधुना इह मलयानिलादीनां भावेन तत्तु अधिकं खेदकारणं जातमिति भावः। अत्रोपवनगमनस्य सम्भावितशान्तिहेतुत्वे सत्यपि तत्रापत्प्रतीकाराभावः प्रत्युत समधिकतापोद्भवरूपानर्थापातः, तेन चात्र विषमाख्योऽलङ्कारः; यदुक्तं साहित्यदर्पणे-“यद्वारब्धस्य वैकल्यमनर्थस्य च सम्भवः । विरूपयोः सङ्घटना या च तद्विषमं मतम्"।

 विविक्षोरिति यद् यस्मात् कारणादिति चूर्णकस्थवाक्येनान्वयः । उद्यानं प्रमदवनाख्यं विविक्षोः प्रवेष्टुमिच्छोर्मम इदमुपवनं अघशान्तये खेदनिवारणाय न ।