तदुपायश्चिन्त्यतां यथा सफलप्रार्थनोऽहं भवेयम् ।
विदूषकः-(विहस्य ) भो! अहल्लाकामुअस्स इन्दस्स वज्जं सचिवो; उव्वसीपज्जुस्सुअस्स भवदो वि अहम् । दुवे वि एत्थ उम्मत्तआ । [भो! अहल्याकामुकस्येन्द्रस्य वज्रम् सचिवः, उर्वशीपर्युत्सुकस्य भवतोऽप्यहम् । द्वावप्यत्रोन्मत्तौ ।]
राजा-न खलु चिन्तयति भवान् ।
विदूषकः-(चिन्तयति ।) एसो चिन्तेमि । मा उण परिदेविदेहिं समाधि भंज्जस्ससि । (निमित्तं सूचयित्वा । आत्मगतम्) अहो!
वनलतासु तदङ्गनालोकदुलर्लितम् तादृशालौकिकरूपसमलङ्कृतायाः अङ्गनायाः लोकः दर्शनं तेन दुर्ललितं दूषितं मन्थरं स्तब्धं वा मम चक्षुः धृतिं न बध्नाति स्थिरतया स्थातुं न पारयति । तासु मम चक्षुर्न सञ्जति इति भावः । अनेन च नायिकायाः अलौकिकरूपशालित्वं व्यज्यते । विविधोपवनलतासु मे चक्षुर्न बध्नातीति वचसा नैककमनीयकामिनीकान्तेऽप्यन्तःपुरे मेऽन्तःकरणं न सञ्जतीति भावप्रदर्शनात् उपवनलतारूपोपमानपदेनोपमेयभूतानां नानारमणीनां निगरणं व्यज्यते । तस्माच्चात्र अतिशयोक्त्यलङ्कारध्वनिः । आर्या जातिः॥८॥
तत्तस्मात् हेतोः उपायः चिन्त्यतां येन सफला प्रार्थना यस्य सः सफलप्रार्थनः सकामो भवेयम् । येनाहं तां प्रियां लभेय तदुपायोऽन्वेषितव्यः । सफलप्रार्थनाहेतूनामुपायानां चिन्तनस्य प्रतिपाद्यत्वात् "प्रयत्नो नाम कार्यस्य द्वितीयावस्था" इतः प्रक्रमते । यल्लक्षणं दशरूपके-"प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः" । अत एवात्र विक्रमोर्वशीसमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य चेटीविदूषकाभ्यां ज्ञायमानतया किञ्चिल्लक्ष्यस्य, काशीराजदुहित्रा च भूर्जपत्रवृत्तान्तेनोन्नीयमानस्य दृश्यादृश्यरूपतयोद्भेदात् इतः प्रभृति प्रतिमुखसन्धिः प्रवर्तते । यदाह विश्वनाथ:-“फलप्रधानोपायस्य मुखसन्धिनिवेशितः । लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखञ्च तत् ॥
विदूषकः-(विहस्य-किञ्चिदात्मश्लाघां कुर्वन् परिहासेन)। भो मित्र ! यथा अहल्यायाः गोतमस्य भार्यायाः कामुकस्येन्द्रस्य वज्रम् एव सचिवः कार्यवाहको बभूव तथैव उर्वशीपर्युत्सुकस्य तत्प्राप्तिसमुत्कण्ठितस्य तव अहं नियोजितकार्यधूः सचिवोऽस्मि । अत्र कार्ये द्वौ अपि वज्रम् अहं च उन्मत्तौ भयावहौ । विलक्षणकार्यशक्तिसम्पन्नत्वात् ।
राजा-न खलु चिन्तयति भवान्-उपायम् । किन्तु किमपि संल्लपति ।
विदूषकः-(चिन्तयति-उपायचिन्तनं नाटयति) एष चिन्तयामि । किन्तु त्वं परिदेवितः विलापैः समाधिं चित्तकाग्र्यं भङ्ग्यसि विनाशयसि । अहो ।