पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५७

पुटमेतत् सुपुष्टितम्
५९
द्वितीयोऽङ्कः

अहं कज्जदंसी । [एष चिन्तयामि । मा पुनः परिदेवितः समाधिं भङ्क्ष्यसि । अहो ! अहं कार्यदर्शी ]

 राजा-

  असुलभा सकलेन्दुमुखी च सा
   किमपि चेदमनङ्गविचेष्टितम् ।
  अभिमुखीष्विव वाञ्छितसिद्धिषु
   व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥

 (इति मदनोत्सुकस्तिष्ठति ।)

(ततः प्रविशत्याकाशयानेनोर्वशी चित्रलेखा च)

इति आह्लादे । तेन कामपि कार्यनिष्पत्तिं सूचयन् अहम् कार्यदर्शी कुशल इति गगने उपयान्तीमुर्वशीं प्रेक्ष्य विस्मितो ब्रूते ।

 राजा-असुलभेति । सकलेन्दुमुखी पूर्णचन्द्रानना सा सुकुमारी युवती असुलभा दुर्लभा । तथापि किमपि कुतोऽप्यकथ्यकारणात् इदं वामेतरनयनस्पन्दनादिकं अनङ्गविचेष्टितम् कामचेष्टा च मयि भवति । अपि च मनः वाञ्छितस्य अभीप्सितस्य वस्तुनः सिद्धिषु प्राप्तौ अभिमुखीषु अनुकूलासु अचिरनियमानासु वा सत्सु यथा निर्वृतिं सुखं तापराहित्यं वा व्रजति प्राप्नोति तथैव मम मनः एकपदे सपदि तस्मिन्नेव वा क्षणे निर्वृतिं शान्तिमुपैति । तात्पर्यं तु-दुर्लभा तु मम प्रिया । भवति च मयि किमप्यवर्णनीयः कामप्रभावः तथा च मम मनः तादृशीं शान्तिं अस्मिन्नेव क्षणे प्राप्तम् यथा मनोरथसिद्धिः अचिरभाविनी एव स्यात् । अनेन उर्वशीसम्मेलनं शीघ्रमेव भविष्यतीति दक्षिणाक्षिस्फुरणेन व्यक्तमिति सूचितम् । अत्र च पूर्वार्धे चकारद्वयप्रदानेन सकलेन्दुमुख्याः असुलभत्वेन अनङ्गविचेष्टितम् विरोधीति वैरोध्यं सूचितम् । सम्पूर्णाभिः कलाभिः युक्तमिति सकलश्चासौ इन्दुः तादृशं मुखं यस्याः सा सकलेन्दुमुखी । अत्र धर्मवाचकलुप्तोपमालङ्कारः । एकपदे तस्मिन्नेव क्षणे "तत्क्षणैकपदे तुल्ये सद्यः सपदि च स्मृतम्" इति हलायुधः । अत्र वाञ्छितसिद्धिषु अभिमुखीष्विवेति तत्समये असुलभायां अपि शीघ्रमेव सम्पाद्यत्वसमारोपणेनोत्प्रेक्षालङ्कारः । यतः उर्वशीलाभरूपकार्यस्य नाटकीयवस्तुनो नायकमनःकामनायाः प्रारम्भयत्नप्राप्त्याशानियताप्तिफलागमरूपाः पञ्चावस्थाः सन्ति, तेन वाञ्छितस्य पञ्चाङ्गत्वम् एकैकस्य चाङ्गस्य क्रमेण सिद्धिः, तासां च समस्तानां समानगौरवशालित्वान्नायकाभीप्सितत्वात्पृथग्ग्रहणम् , अत एवात्र वाञ्छितसिद्धिषु इति वहुवचनप्रदानम् । तेन च नायिकानुकूल्यं अस्तीति नायकहृदि दूरस्थभावविनिमयशक्त्या (by means of Telepathy) प्रतिबिम्बितमिति प्रत्ययगतवक्रताजनिता वस्तुध्वनिः ॥