पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६

पुटमेतत् सुपुष्टितम्

१०

विदूषकेण सह मन्त्रयते यत् अपि नामोर्वशी इदानीमिहागत्य स्वचरणनूपुररवेण मम श्रुतिपुटं सम्भावयेत्, अथवा पृष्ठतः समेत्य मे नयने करकमलावृते कुर्वीत, अथवा इह दर्शनेन मां सभाजयेदिति बहुशः प्रलपन् तदैकतानतया तस्यामासक्तस्तिष्ठति । अत्रान्तरे क्रीडापरायणोर्वशी पश्चादेत्य राज्ञः लोचने कराभ्यां निमीलयति । राजा च स्पर्शसुखेन विज्ञातप्रियः इयं नारायणोरुसंभवा वरोरुरिति तर्कयति । विदूषकश्च विस्मयविकसितो भवति । राजा च स्वगात्रस्य पुलकायमानत्वं तदेकसंस्पर्श विनाऽसम्भवमिति विचार्य तां वरोरुमेवामन्यत । अथ च हस्तावपनीय मुकुलिताक्षी हस्ताभ्यां गृहीत्वा परिवर्तयति। उर्वशी समुपसृत्य राज्ञो जयमुदीर्य देव्या मह्यं दत्तो महाराजः अतः प्रणयवती शरीरसङ्गतास्मीति स्वाभिप्रायमुद्घोषयति । राजा हि देव्या दानाद्यदि त्वं मां व्रजसि कस्यानुमतेन त्वया आदौ मे हृदयं चोरितमिति सोपहासं प्रत्याह । पश्चाचित्रलेखा तयोरेकान्तवासमाकाङ्क्षमाणा राजानं प्रार्थयते यदियं निरुत्तरा, मया च वसन्तापगमे ग्रीष्मसमये भगवान् सूरः उपचरितव्यः तदहं गच्छामि यथेयं मे प्रियसखी स्वर्गाय नोत्कण्ठेत तथा वर्तितव्यम् । राजा च तदङ्गीकरोति । उर्वशी चित्रलेखां परिष्वज्य मा खलु मां विस्मरेति सकरुणं प्रार्थयते । अपगतायां तु चित्रलेखायाम् राजा सामन्तमौलिमण्यरुणितपादद्वन्द्वे भुवनैकप्रभुत्वे तथा सुखं न लभे यथा अस्याश्चरणयोराज्ञाकरत्वेनाधिगतवानस्मीति स्वानन्दसीमानं प्रकाशयन् त एवेदानीं शशिनः कराः सुखयन्ति, पञ्चबाणस्य बाणास्त एवाधुनाऽनुकूलाः, तथा च यद्यद्विरुद्धं पुराऽऽसीत् तत्तत्सर्वं सम्प्रति मनोऽनुकूलतां प्राप्तमिति प्रियासमागमसुखमलौकिकं वर्णयामास। उर्वशी च चिरकारिका महाराजस्यापराद्धाहमिति आत्मानं क्षमापयति । राजा च क्लेशलब्धस्य वस्तुनः रसवत्तरत्वं ख्यापयन् “निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः” इति दृष्टान्तेन तमेवार्थं विशिनष्टि । विदूषकश्च गृहप्रवेशाय अभ्यर्थयते । ततः सर्वे विशन्ति । राजा चोर्वशी यदाऽहं त्वत्समागममनोरथावाप्तिवश्चितः आसम् तदा रजनी शतगुणिता बभूव यदीदानीं तव समागमे तथैव प्रसरेत्तदाऽहं कृतार्थतां भजेयमिति निवेद्य सवयस्यप्रियो निष्कान्त इति ।

॥ इति तृतीयोऽङ्कः॥


॥ चतुर्थोऽङ्कः॥

 इत्यं गर्भसन्धौ प्रेम्णः अवस्थामीदृशीं बोधयित्वा कविशेखरः प्रकृतेऽस्मिन्नङ्के अवमर्शसन्धिं आङ्कपरिसमाप्तेः प्रस्तारयति। नायकनायिकयोरीदृशं समागमं व्युत्पाद्य कविरत्र सम्भोगस्य वैलक्षण्यं दर्शयितुमस्मिन्नङ्के तावत् विप्रलम्भं प्रतिपिपादयिषुस्तत्समये राजा कां कां दशामन्वभवदिति सर्वं ख्यापयति । तत्र च भूतभविष्यतोः वस्तुनोः प्रदर्शनाय सहजन्याचित्रलेखयोर्वादमन्तरा उपक्षिपति । तत्र च चित्रलेखाया म्लानामाकृतिं प्रेक्ष्य सहजन्या तत्कारणं चित्रलेखां पृच्छति । सा च अस्य कारणं प्रियसख्या: उर्वश्या विरह' इति निवेदयति । अपि चाह