पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६१

पुटमेतत् सुपुष्टितम्
६३
द्वितीयोऽङ्कः

जमुणासंगपावणेसु सलिलेसु पुण्णेसु अवलोअन्तस्स विअ अत्ताणअं पइट्ठाणस्स सिहाभरणभूदं विअ तस्स राएसिणो भवणं उबगद म्ह। [सखि ! प्रेक्षस्व प्रेक्षस्व । एतत् भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येषु अवलोकयत इवात्मानं प्रतिष्ठानस्य शिखाभरणभूतमिव तस्स राजर्षेर्भवनमुपगते स्वः।]


भगवत्याः परमपावनायाः भागीरथ्याः गङ्गायाः यमुनासङ्गेन पावनेषु पवित्रेषु पुण्येयु पुण्यपदेषु सलिलेषु जलेषु आत्मानं स्वीयं खरूपमिवावलोकयतः पश्यतः प्रतिष्ठानस्य तदाख्यनगरस्य शिखाभरणभूतमिव चूडामणिरिव तस्य दिव्यस्य राजर्षेः पुरुरवसः भवनं निवाममन्दिरमुपगते प्राप्ते स्वः । तात्पर्यं तु-विक्रमस्य राजधानी गङ्गातटपरिचुम्बिनी बभूव । तेन गङ्गाजलेघु तस्याः प्रतिबिम्बमदृश्यत । तत्रोत्प्रेक्षते तत्रभवान् कविर्यत् गङ्गायाः सलिलेषु राजधानीयं स्वीयं रूपं अवलोकयति इति । तेन चायं भावः-भगवत्याः गङ्गायाः यमुनया सह सङ्गमेन अधिकपुण्येषु जलेषु स्वरूपमेव पश्यतः प्रतिष्ठानाख्यनगर्याः चूडामणिमिव संस्थितं राजप्रासादमावाम् प्राप्नुवः इति ।

 अत्र हि राजधान्या गङ्गासलिलेष्वेव खरूपदर्शनरूपव्यापारप्रतिपादनेन उत्प्रेक्षामिषेण गङ्गातटस्थलं लक्ष्यते । तेन च शैत्यपावनत्वादिकं पुण्यशीलत्वं च तस्यां व्यज्यते। तेनेह 'गङ्गायां घोष' इतिवत् प्रयोजनवती उपादानलक्षणा। शिखाभरणभूतमिवेति अन्योत्प्रेक्षा । ततश्च प्रासादस्य सर्वोत्कृष्टवं प्रतिपादितम् । भागीरथ्या यमुनासङ्गित्वप्रदानेन अधिकपुण्यवत्त्वं व्यक्तीकृतम् । तथा च तस्य राजधानी यत्र कुत्रापि तीर्थराजस्य प्रयागस्य समीपे एवासीदिति सूचितम् । प्रतिष्टानस्येत्यनेन भवेत् “पटना" प्रयागपूर्वतीरस्थितं (झूसी) नगरम्-इति रङ्गनाथः । अत्र भगीरथेन स्वपितामहसन्तरणार्थं भुवि समानीतेति भागीरथी, तथा च यमस्य भगिनी तेन यमुनेति पौराणिककथाद्वयमनुसन्धेयम् । पुनश्च गङ्गामन्दाकिनीतिपदव्यावृत्तिपूर्वकं भागीरथीपदग्रहणेन अस्यां पितृपितामहादीनां सर्वेषामपि सन्तारणसामर्थ्यसनाथत्वं व्यज्यते । कालिन्द्यादीनि पदानि विहाय यमुनापदग्रहणेन यमस्य भगिनीत्वात् तस्य राजधान्यामपि दुष्टानां पापानां निग्रहसामर्थ्यवत्त्वस्य व्यज्यमानत्त्वात् तस्य राजधान्यामपि पापानां निग्रहानुरूपन्यायानुसारित्वमासीदिति द्योतितम् । “सलिलेष्विति" बहुवचनप्रदानेन बहूनां पुण्यजलानां अस्यां सन्निवेशः आसीदिति प्रकटीकृतम् । आदरार्थे वा बहुवचनम् भगवतीपदप्रयोज्यत्वात् । महतीनां नदीनां जलस्य बहुवचनेन सम्बोधनमसाम्प्रतं न । अन्यास्वपि भाषासु तादृशप्रयोगदर्शनात् यथा (Cf-the waters of the Holy Ganges)। न चात्र यमुनासङ्गपावनेषु तथा पुण्येषु इति समानार्थकपदद्वयप्रदानेन पुनरुक्तिरिति वाच्यम्, तेन स्वयं पुण्येषु एव, पुनश्च यमुनासङ्गमेन परं पावनीकृतेषु इति आत्यन्तिकपावनत्वस्य द्योतितवात् । अथवा पुण्यपदमात्र रुचिरत्ववाचकम्