पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६३

पुटमेतत् सुपुष्टितम्
६५
द्वितीयोऽङ्कः

 उर्वशी-( विलोक्य ) हला ! दाणिं पढमदंसणादो वि सविसेसं पिअदंसगो मे महाराओ पडिभादि [हला ! इदानीं प्रथमदर्शनादापि सविशेपं प्रियदर्शनो मे महाराजः प्रतिभाति ।]

 चित्रलेखा-जुनदि । ता एहि उवसप्पम्ह । [युज्यते । तदेहि उपसर्पावः।]

 उर्वशी-ण दाव उवसप्पिसम् । तिरक्करिणीपडिच्छण्णा पास्सवत्तिणी भविअ मुणिस्सं दाव पामवत्तिणा वअस्सेण सह विअणे किं मन्तअन्तो चिट्ठदि त्ति । [न तावदुपसर्पिष्ये ।तिरस्करिणीप्रतिच्छना पार्श्ववर्तिनी भूत्वा श्रोष्ये तावत् पार्श्ववर्तिना वयस्येन सह विजने क्रिम् मन्त्रयन् तिष्ठतीति । ]


वेक्षते प्रतीक्षते अत्रैवास्ते महाराजः स्वां परिपालयन् यथा चन्द्रः कौमुदीं प्रतीक्षते । यथा कृष्णपक्षानन्तरं प्रथमोदितो द्वितीयाचन्द्रः लोकान् आह्वादयति तथैवाऽयं आल्हादयत्यत्मान् । अपि च यथा द्वितीयाचन्द्रः क्षीणः असमग्रकलो भवति तथैवायमपि तद्विरहक्षीणः अस्तीति गम्यते । यथा स्वीयज्योतिःपोषिकां कौमुदीं चन्द्रः प्रतिपालयति तथैवाऽयमपि त्वदागमनप्रतीक्षां कुर्वाणः तिष्ठति । अत्र भगवानिति पदप्रदानेन यथा ऐश्वर्यशालिनोऽपि चन्द्रस्य चन्द्रिकापेक्षा तथैव महाराजस्य दासीकृतैश्वर्यस्यापि त्वदपेक्षा इति व्यज्यते । तथा च कौमुदीत्वसमारोपेण नायिकायां तस्मै सविशेषानन्ददायित्वं ध्वन्यते । उपमालङ्कारश्च । अवोपसर्गपूर्वकेक्षतेः प्रतीक्षणार्थे कविना अन्यत्रापि प्रयोगो विहितः-यथा “नहि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः” (मालविकाग्निमित्रे)।

 उर्वशी-(तादृशं तं विलोक्य ) इदानीमस्यामवस्थायां विद्यमानोऽयं महाभागः प्रथमदर्शनाद् अपि सविशेषमत्यन्तं प्रियं दर्शनं यस्येति तादृशो मनोहारी मे मह्यं दृश्यते । पूर्वतः अधिकं शोभनो लक्ष्यते । अत्र स्वभावोक्तिः । हृदये जाते तु रतेरुद्गमे चिरविरहानन्तरं पुनः सम्मेलने आलम्बनयोः परस्परं सविशेषा प्रीतिः निरतिशयः आल्हादातिरेकः सन्मानं च भवति इति सहृदयानुभव एवात्र प्रमाणम् । अथवा 'मे महाराज' इति षष्ठीविभक्त्यन्तमस्मत्पदम् मदीयत्वं सूचयति ।

 चित्रलेखा-युज्यते-यत्त्वं वदसि तत्तु यथार्थम् । तदेहि । उपसर्पावः तस्य निकटं प्राप्नुवः।

 उर्वशी -न तावदुपसर्पिष्ये। नाहं तन्नयनपथगामिनी भवितुमिच्छामि । अदृश्यत्वसामर्थ्यप्रदा तिरस्करिणी तदाख्या विद्या तया प्रतिच्छिन्ना अन्तर्हिता सती अस्य पार्श्ववर्तिनी निकटस्था भूत्वा श्रोष्ये आकर्णयिष्यामि यत् किमपि अयं पार्श्ववर्तिना समीपस्थेन वयस्येन माणवकेन सह विजने रहसि मन्त्रयन् विचारयन् तिष्ठति । अहं तु किमयं मित्रेण सह विचारयतीति श्रोष्ये न तु तद्दर्शनपथं ।