पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६५

पुटमेतत् सुपुष्टितम्
६७
द्वितीयोऽङ्कः

 उर्वशी-सहि ! भीआमि सहसा पहावादो विण्णादुम् । [सखि ! बिभेमि सहसा प्रभावतो विज्ञातुम् । ]

 विदूषकः -भो! णं भणामि चिन्तिदो मए दुल्लहपणइजणसमागमोवाओ [भोः ! ननु भणामि चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः।]

 राजा-वयस्य ! कथ्यताम् ।

 विदूषकः-सिविणसमागमआरिणं णिद्दं सेवदु भवम् । अहवा तत्तभोदीए उव्सीवए पडिकिदिं चित्तफलए अहिलिहिअ आलोअन्तो अत्ताणअं विणोदेहि । [स्वप्नममागमकारिणीं निद्रां सेवताम् भवान् । अथवा तत्रभवत्याः उर्वश्याः प्रतिकृतिं चित्रफलके अभिलिख्य आलोकयन् आत्मानं विनोदय ।]


 ध्यानायेत्यत्र “तुमर्थाच्चेति" सूत्रेण ध्यातुमित्यर्थे चतुर्थी ।

 उर्वशी-सखि ! प्रभावतः ध्यानवशात् तां ज्ञातुं बिभेमि । कुतः- सम्भवतीदं यत् राज्ञः काप्यन्या प्रिया भवेत् यां मार्गयमाणोऽयमित्थं तुष्णीमास्ते। यदि मया प्रभावतो जिज्ञासा कृता, तदनन्तरं यदि तेन निदिध्यास्यमाना कापि सा मदन्या भवेत्तदा तु तत् ध्यानार्जितं ज्ञानं केवलं मम तापायैव स्यात् इति मत्वा प्रभावतो विज्ञातुमहं भीताऽस्मि ।

 विदूषकः-ननु अवधारणे । भणामि अहं कथयामि यन्मया दुर्लभप्रणयिजनसमागमोपायः चिन्तितः । कथं दुर्लभापि प्रिया सुगमा स्यादित्युपायो मयाऽत्र आविष्कृतः। प्रेयसीं निदिध्यासतोऽनवहितस्य महाराजस्य पूर्वमभिहितं विदूषकवचनमनाकर्णयतश्चित्तमावर्जयितुं "ननु भणामीति" पदयुगलमत्रगुरूच्चारणव्यञ्जकम्।

 राजा-वयस्य ! कथ्यताम् कस्तावत् स उपायः । एतत्तु राज्ञा औदासीन्येन तद्वचने बहुमानं अकृत्वैव प्रोक्तम् । भवतु त्वदुपायस्यापि शृणोमि इति ।

 विदूषकः-भवान् स्वप्ने प्रियया सह समागमः सम्मेलनं तत्कारिणीं निद्रां सेवताम् । भवान् स्वपितु । तत्र स्वप्ने प्रियया सह समागमो भविष्यति इति । एकस्तावदयमुपायः । अपरश्च तत्रभवत्या आदरणीयायाः उर्वश्याः प्रतिकृति प्रतिरूपं चित्रफलके अभिलिख्य आलोकयन् प्रेक्षमाणः आत्मानं विनोदय अथवा आलेख्ये तस्याः प्रतिमानं लिखित्वा कुरु तावत् स्वमनोरञ्जनम् ।

 पूर्वोपायदर्शने भवानिति पदस्य, परत्र च विनोदयेत्यत्राध्याहृतस्य युष्मत्पदस्य प्रयोगेण विदूषकस्य सौहार्दवशानिरङ्कुशत्वं गम्यते ।