पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१७

पुटमेतत् सुपुष्टितम्

११

गुरूणि तस्मिन् विप्रयोगे सत्यपि महता खल्वन्येनानर्थेन व्यग्रचित्ताऽस्मीति । तत्कथमिति समुपस्थापितशङ्कायां सहजन्याया चित्रलेखा विज्ञापयति यदेकदा विहरणपरायणा राज्ञा सहोर्वशी कैलासशिखरे गन्धमादनवनं विहाराय गता। तत्र च मन्दाकिनीतटे क्रीडमाना उदयवतीनाम्नी विद्याधरकन्यका तेन राजर्षिणा बहुकालं स्निग्धं निध्द्याता। तेन च हेतुनोर्वशी असहना सती कोपं कृत्वा भर्तुरनुनयमवमानयन्ती गुरुशापसम्मूढहृदया विस्मृतदेवताव्यवहारा स्त्रीजनपरिहरणीयं कुमारवनं प्रविष्टा । तत्र च देवतानियमानुसारं सा लतात्वमाप्ता । तेन चाधिकतरं सोत्कण्ठा सशोका चास्मि । पश्चात् च सहजन्यया पृष्टा तु कस्मिंश्चिदपि पुनर्मेलनोपाये चित्रलेखा सङ्गमनीयाख्यमणिं विहाय नास्ति कश्चनोपाय इति बोधयति । सहजन्या च 'न खलु तादृशा आकृतिविशेषाश्चिरं दुःखभाजो भवन्तीति' समाश्वास्य प्राची दिशमवलोक्य 'तदेहि उदयाधिपस्य भगवतो मरीचिमालिनः उपस्थानं कुर्वः' इति ख्यापयित्वा परस्परकथानुसन्धानं विधाय खण्डधारया चिन्तादूनमानसा सहचरीदर्शनबद्धलालसा हंसी सरोवरे ताम्यतीति अन्योक्त्या चित्रलेखायाः उर्वश्याः कारणेन संजातामन्तस्तापावस्थां प्रकटय्य ससखी निष्क्रान्ता ॥

 ततश्च प्रविशति सोन्मादः आकाशबद्धलक्ष्यो राजा । स च मेघं रक्षो मत्वा 'आः दुरात्मन् मम प्रियां हृत्वा क्व गच्छसि तिष्ठ तिष्ठेति' भर्त्सयित्वा, वर्षापरम्परया हतः बाणैर्हत इति मत्वा लोष्टं गृहीत्वा प्रतिहन्तुं प्रवर्तते । पश्चाच्च विभाव्य सकरुणं नवजलधरोऽयं न नाम राक्षसः, बाणवृष्टिरियं न, किन्तु जलवृष्टिरिति मूर्ञ्छितः पतति । ततश्च संज्ञां लब्ध्वा पुनरपि सकरुणं विचिन्त्य क्वव नु सा गता भवेत् , यतः सा यदि कोपप्रभावात् प्रभावेण पिहिता स्यात् सा मह्यं दीर्घं न कुप्यति, स्वर्गं गता भवेत् किन्तु सा मयि भावार्द्रा इति बहुशो विकल्पयन् परावृत्तभागधेयानां दुःखं दुःखानुबन्धीति शोचमानः सपदि तदीयविप्रयोगस्य नववारिधरोदयादुद्दीपितत्वं परिज्ञाय भृशं पीडां भजते । ततश्च मनस्येव विहस्य वृथा हि मया सन्तापवृद्धिरुपेक्ष्यते यतो 'राजा कालस्य कारणम्' इति प्रसिद्धवागनुसारं कथं न मया जलधरसमयः प्रत्यादिश्यते इति कृत्वा पुनश्च प्रावृषेण्यैरेव लिङ्गैरिदानीं मे राजोपचार इति विचार्य मेघं कनकरुचिरं वितानम्, तरुमञ्जरीः चामराणि, नीलकण्ठान् वन्दिनो मत्वाऽऽत्मानं संस्थापयति । इदानीं परिच्छदश्लाघां वृथा मन्यमानः काननेऽस्मिन् गहने प्रियामन्वेष्टुं प्रारेमे । इतस्ततः परिक्रामन् राजा ससलिलैः कुसुमैर्युक्तां नवकन्दलीमवलोक्य कोपारुणितलोचनैः ससलिलैर्विभूषितां प्रियां स्मरामीति खिन्नमनाः मेघसिक्तसिकतासु वनस्थलीषु यदि सा इतो गता स्यात्तदा अलक्ताङ्का तस्याश्चारुचरणपतिर्गुरुनितम्बतया पश्चान्नता दृष्टिपथमवतरेत् इति विकल्प्य, किञ्चिदग्रे गत्वा शुकोदरश्यामं स्तनांशुकम् दृष्ट्वा तदादानपरायणस्तं नवशाद्वलं परिज्ञाय सास्रम् कुतोऽस्मिन् विपिने प्रियाप्रवृत्तिर्लभेय इति अन्ततो विचारयन् सञ्चारपरायणः शैलतटस्थलीपाषाणमधिरुह्य नृत्यन्तं शिखिनं विलोक्य किन्त्वया. मम प्रिया दृष्टेति पृच्छति । पश्चान्नीलकण्ठं पृच्छति, तञ्च प्रतिवचनमदत्वैव नृत्यन्तमालोक्य तस्य , हर्षकारणं अवगन्तुकामः