पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१७०

पुटमेतत् सुपुष्टितम्
७२
विक्रमोर्वशीये

 विदूषकः--अविद अविद भो, किं णु एदम् । भुअङ्गणि- म्मोओ किं मं खादितुं णिवडिदो [अविदाविद भोः ! किं न्वेतत् ! भुजङ्गनिर्मोकः किं मां खादितुं निपतितः ? ]

 राजा-(दृष्ट्वा ) नायं भुजङ्गनिर्मोकः । भूर्जपत्रगतोऽयं अक्षरविन्यासः।

 विदूषकः--णं क्खु अदिट्ठाण उव्वसीए भवदो परिदेविअं मुणिअ भुज्जवत्ते अणुराअसूअआ अक्खरा अहिलिहिअ विसज्जिआई भवे । [ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्यभिलिख्य विसर्जितानि भवेयुः।]

 राजा-नास्त्यगतिर्मनोरथानाम् (गृहीत्वानुवाच्य च सहर्षम् ) सखे! प्रसन्नस्ते तर्कः।

 विदूषकः-जं एत्थ अहिलिहिदं तं सुणिदुं इस्सामि । [ यदत्राभिलिखितं तं श्रोतुमिच्छामि ।]


 विदूषकः-अविद अविद भोः ! ज्ञायतां ज्ञायतामिति । “अदृष्टाश्रुतसम्प्राप्तावविदाविद भोः पदम्" इति सागरोक्तेः । अस्य विस्मयावबोधकस्याव्ययस्य अदृष्टाश्रुतसम्प्राप्तिरूपोऽर्थः । किं नु एतत् इति विस्मयः। भुजङ्गनिर्मोकः किम् भोः मां खादितुं निपतितः । भुजङ्गस्य निर्मोकः कञ्चुकः (कांचली इति भाषायाम् 'Slough' इति आङ्ग्लाः) “निर्मोको मोचने व्योम्नि सन्नाहे सर्पकञ्चुके" इति कोशः।

 राजा-(दृष्ट्वा) । नायं भुजङ्गनिर्मोकः किन्तु भूर्जपत्रगतोऽयं अक्षरविन्यासः । किमपि भूर्जपत्रे लिखितमस्तीति भावः । (भोजपत्र इति भाषा- Birch इति आङ्ग्लाः)।

 विदूषकः-ननु खलु इति वितर्के । सम्भवमिदं यत् , अदृष्टया उर्वश्या भवतः परिदेवितं विलापं श्रुत्वा भूर्जपत्रेऽस्मिन् अनुरागसूचकानि प्रेमप्रदर्शकाणि अक्षराणि अभिलिख्य विसर्जितानि पातितानि भवेयुः इति तर्क्यते । मदनपत्रिकेयं भवेदिति भावः ।

 राजा-मनोरथानामगतिरविषयः किमपि न। यत्र कुत्रापि मनोरथानां गतिरस्तीति भावः । सम्भवमिदं नु स्यात् इति तात्पर्यम् । एतदेव शाकुन्तलेऽपि- "मनोरथानामतटप्रपातः" इति । (भूर्जपत्रं गृहीत्वा अनुवाच्य मनस्यैव पठित्वा प्रियालेखत्वात्सहर्षम् ) सखे माणवक ! प्रसन्नस्ते तर्कः-यत्त्वया तर्कितमासीत् तत्तु तथैव । शुद्धस्तेऽनुमानः ।।

 विदूषकः-यदत्र भूर्जपत्रे लिखितं तत् श्रोतुमिच्छामि ।