पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१७३

पुटमेतत् सुपुष्टितम्
७५
द्वितीयोऽङ्कः

 उर्वशी-एत्थ णो समभाआ मर्दा । [अत्रावयोः समभाग मतिः ।]

 राजा-वयस्य ! अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतां अयं स्वहस्ते निक्षेपः प्रियायाः।


भूर्जपत्रे निवेशितम् लिखितम् । तत्तु अहं तस्याः अनुपमसौन्दर्यालङ्कृतायाः मदिरेक्षणायाः मदघूर्णितलोचनायाः उन्नते पक्ष्मले नेत्रलोमनि यस्मिन् तादृशं विस्फारितलोचनमाननं मम आननेन मुखेन समागतमिव मन्ये । तात्पर्य तु- अस्य पत्रस्य प्राप्तिं प्रियासमागमात् अन्यूनामिव मन्ये-प्रियासङ्गममेव मन्ये । एतत् पत्रं तु किं मिलितं, प्रियासमागम एव जात इति भावः । अनेन विरहातिरेकः गम्यते । यथा कश्चनात्यन्तिकवियोगविधुरः प्रेयस्या साक्षात् समागमेऽसम्भवे सति, तल्लेखप्रतिमादर्शनादिकमेव तत्समागममेव मन्यते, एवमेवात्र मन्वानस्य विप्रलम्भविधुरस्य तस्य विक्रमस्यानेन अतिशयप्रेमाभिव्यञ्जकं वियोगदुःसहत्वं ध्वन्यते। अत्र च पत्रे तदाननत्वसम्भावनयोत्प्रेक्षालङ्कारः। अत्र पुष्पं नाम सन्ध्यङ्गम् "पुष्पं विशेषवचनं मतम्" । पिशुनपदस्य अभिव्यञ्जकत्वरूपोऽप्यर्थः "पिशुनौ खलसूचकौ" इति त्रिकाण्डशेषः । माद्यत्यनयेति मदिरा इति मदि हर्पे (दिवादिः परस्मै सेट् ) धातोः “इषिमदिमुदि” (उ. १-१५१) इत्यादिना किरचान्तव्युत्पत्तेः मदिरामदविघूर्णन्नयनाया नायिकाया दर्शनात् हर्षः मदश्च जायते इति विशेषार्थबोधः । “सौष्ठवेनापरित्यक्ता स्मरापाङ्गमनोहरा ! वेपमानान्तरा दृष्टिर्मदिरा परिकीर्तिता" इति सङ्गीतकलिकायाम् ॥

 वसन्ततिलका वृत्तम् "उक्ता वसन्ततिलका तभजा जगौ गः" तकारभकारजकाराः यत्र सगुरुद्वया भवन्ति तत्र वसन्ततिलकाख्यं वृत्तम् । पादान्ते च यतिः॥१३॥

 उर्वशी-(चित्रलेखां प्रति) अत्र आवयोः समभागा समाना अनुकूला वः मतिः। यत् त्वयोकं “अस्य म्लानैः अङ्गकैः भणितमेवैतत्" इति यथार्थमेव ॥

 यद्वा-(विक्रममुद्दिश्यात्मगतमेव) एतस्य दर्शनेन आवयोः समागतमिवाभवत् इति यत् भवद्भिः भणितम् तत्तु मम विचारानुकूलमेव । अत्रावयोः सदृश एव विचारः।

 राजा-वयस्य माणवक ! मे अङ्गुलीजन्येन खेदेन अक्षराणि (अस्मिन् पत्रे लिखिताक्षररचना) लुप्यन्ते परिमृष्टानि भवन्ति ॥ लोपस्तु अविद्यमानता- "अदर्शनं लोपः" इति कौमुदी । अक्षराणि नष्टानि दुर्वाच्यानि वा भवन्ति । अत इति शेषः। प्रियायाः मम अयं निक्षेपः न्यासः स्वहस्ते धार्यताम् । निक्षेपपदेन पुनरेतद् दर्शनीयं देयं वा भवेत् इति सूचयति । साक्षात्समागमवेलायां कदापि भविष्यत्यस्यापेक्षा वा इति भावः ।