पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१७६

पुटमेतत् सुपुष्टितम्
७८
विक्रमोर्वशीये


 विदूषकः-(अपवार्य ) कहं ण एसा उव्वसी उवगदा ! तत्त- भोदीए उव्वसीए सहअरीए एदाए होदव्वम् । [ कथं नैषा उर्वश्युपगता ! तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् ।]

 राजा-एतदासनमास्यताम् ।

 चित्रलेखा-उव्वसी महाराअं सिरसा पणमिअ विष्णवेदि । [उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति ।]

 राजा-किमाज्ञापयति-

 चित्रलेखा-मम तस्सिं सुरारिसंभवे दुण्णए महाराओ एव्वं सरणं आसी । संपदं सा अहं तुह दंसणसमुत्थेण आआसिणा बलिअं बाधिअमाणा मअणेण पुणो वि महाराअस्स अणुकंपणीआ होमि । [मम तस्मिन् सुरारिसम्भवे दुर्नये महाराज एव शरणमासीत् । साम्प्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्वाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि ।]


 विदूषकः-(मनस्येव उभयोर्वाक्प्रसरं निशम्य विचारयति ) कथं नैषा उर्वशी उपगता ! आदौ “जयतु जयतु" इति शब्दं श्रुत्वा तु तेन इयमेवोर्वशीति अनुमितमासीत् किन्तु उत्तरेण वाक्यार्थेन शङ्का समुत्पन्ना । तदा स विदूषको विचारयति । नेयमुर्वशी । भवेदियं तस्याः सखी इति ।

 राजा-(चित्रलेखां प्रति ) इदमासनमास्यताम् । अत्रोपविशेति भावः ।

 चित्रलेखा-उर्वशी महाराज शिरसा प्रणम्य एतत् कथ्यमानं विज्ञापयति निवेदयति ।

 राजा-किमाज्ञापयति । नायकः प्रेमवशात् तन्निवेदनम् अवश्यकरणीयत्वगुणसम्पन्नमाज्ञापनमिति मन्यते ।

 चित्रलेखा-मम तस्मिन् (प्रथमाङ्कोद्दिष्टे) सुरारेः सम्भवः यस्य सः तस्मिन् , दैत्यकृते दुर्नये विप्लवे महाराज एव शरणं रक्षितासीत् । 'शरणं - गृहरक्षित्रोः' इति कोषः। यदाहं केशिना दैत्येनापहृता तदा भवतैवाभयं दत्त्वा समुद्धृता। साम्प्रतं सैवाहं तव दर्शनात् समुत्थेन समुत्पन्नेन आयासिना संत्रासकेन मदनेन बलवद् अत्यन्तं बाध्यमाना पीड्यमाना पुनरपि यथापूर्वं महाराजस्यानुकम्पनीया दयनीया भवामि । यथा पुरा केशिबाधातः समुद्धृताऽहं तथैवाधुना भवद्दर्शनोत्पन्नेन कामेन सन्तप्ताहं दयनीयेति प्रार्थयति । अत्र चित्रलेखा उर्वश्याः दूतीत्वं स्वीकरोति।

 तथा च 'सुरारिसम्भवेति' परं च, दर्शनसमुत्थेनेत्यत्र एकत्र "भुवः प्रभवश्च" परत्र “जनिकर्तुः प्रकृतिः" इति सूत्रद्वयेन पञ्चमी ।