पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१७८

पुटमेतत् सुपुष्टितम्
८०
विक्रमोर्वशीये

 उर्वशी-(तिरस्करिणीमपनीय) अयि अणवत्थिदे ! लहु एव्व तुए परिच्चत्ताम्हि । [अयि अनवस्थिते ! लघु एव त्वया परित्यक्तास्मि ।]

 चित्रलेखा-( सस्मितम् ) एदस्सिं मुहुत्ते जाणिस्सामो को कं तजिस्सदि त्ति । आआरं दाव पडिवज्ज । [एतस्मिन् मुहूर्ते ज्ञास्यामः कः कं त्यक्ष्यतीति । आकारं तावत् प्रतिपद्यस्व ।]

 उर्वशी-(ससाध्वसमुपसृत्य सव्रीडम्) जेदु जेदु महाराओ। [जयतु जयतु महाराजः।]

 राजा-(सहर्षम् ) सुन्दरि !


"कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।
माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ।"

 इयं चेह दूती उत्तमा–यतः अनयेह परमौचित्यं कृतम् । भृशं पीडितयोर्नायकनायिकयोरवस्थां निरूप्य मेलनप्रकारः क्रियते इति ।--"एता अपि यथौचित्यमुत्तमाधममध्यमाः" - तथा चेयं दूती निसृष्टार्था-"उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् । सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः"-स इति दूतः। एतदेव लक्षणं दूत्या अपि “कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधः" इति वचनप्रामाण्यात् ।

 उर्वशी-(तिरस्करिणीं रूपगोपिनीं विद्यां अपनीय ) अयि अनवस्थिते ! अयि विशेषोत्साहत्वादविमृश्यकारिणि ! अहं त्यया लघु एव अल्पकालमेव [लघ्व्या हीनया इव (पाठान्तरम् ) ] परित्यक्ताऽस्मि । यद्यपि उर्वशी तस्याः सत्वरागमनं मनसि प्रशंसति तथापि उत्तमनायिकात्त्वात् स्वीयोत्साहं गोप्तुमनास्तामेवाधिक्षिपति।

 चित्रलेखा-(सस्मितं) एतस्मिन् मुहूर्ते प्रियसङ्गमसमये ज्ञास्यामः कः कम् त्यक्ष्यति ।-कथं वा त्वं प्रियं सत्वरं परित्यक्तुं प्रभवसि । तत्प्रियं आकारं स्वरूपं तावदादौ प्राप्नुहि ।

 त्वं तु विरहं असहमाना तत्प्रियस्वरूपं निरूप्य कथं तं त्यक्ष्यसीति वयं जानीमः इति उर्वशीकृतमधिक्षेपं प्रत्यधिक्षिपति । अत्र परिहासस्य गम्यत्वात् "नर्म" नाम सन्ध्यङ्गम् । यदुक्तं “परिहासवचो नर्म" । इति ।

 उर्वशी-( ससाध्वसं राज्ञः तेजोविशेषात् सभयं उपसृत्य समीपं गत्वा । सव्रीडम् सलज्जम् प्रियदर्शनात् ) जयतु जयतु महाराजः । महाराजस्य जयमाकाङ्क्षती नायिका स्वीयप्रियस्योत्कर्षमभीप्सते ।

 राजा-(सहर्षम्-प्रियालोकनात् ) सुन्दरि मनोरमे !