मया नाम जितं यस्य त्वयायं समुदीर्यते ।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १६ ॥
(हस्ते गृहीत्वा आसन उपवेशयति ।)
विदूषकः-कीदिसी त्थिति भोदीए रज्जे । पिअवअस्सो वम्हणो ण वन्दीअदि । [ कीदृशी स्थितिर्भवदीये राज्ये, प्रियवयस्यो ब्राह्मणो न वन्द्यते।]
(उर्वशी सस्मितं प्रणमति ।
मयेति -मया नाम जितम्-सत्यमेव ममोत्कर्षः संजातः। अवित्थमेवोत्कर्षशाली अहम् । यतः पदमिदम् पुरा पुरन्दरप्रयोज्यमेवाभवत् साम्प्रतं तु मादृशि जने तस्य प्रवृत्तत्वात् सत्यमहमुत्कर्षशालीति भावः । तस्य हेतुमाह- यस्य पुरुषस्य त्वया तादृशया अयं जयशब्दः समुदीर्यते प्रोच्यते; यो जयशब्दः सहस्राक्षादिन्द्रात् पुरुषान्तरम् मामुपागतः प्राप्तः । अन्यः पुरुषः पुरुषान्तरः ।
अत्र सुमुखिमनोरमप्रियादिविविधपदोपादानविरहपूर्वकं केवलं सुन्दरीपदप्रदानेन परमादरणीयत्वं स्वलावण्येन चित्तद्रावकत्वं च व्यज्यते । सु द्रियते इति सुन्दरः 'दृङ् आदरे' ( तुदादि-आ. अ.) "गृहबृह" ( ३।३।५८ ) इत्यादिना अप् प्रत्ययः । अनया व्युत्पत्त्या आदरणीयत्वं व्यज्यते । तथाच नु उनत्ति चित्तं द्रवीकरोति इति सुन्दः "उन्दी क्लेदने" ( रु. प. से.) ततश्च बाहुलकादरः । "शकन्ध्वादिः" (वा. ६।१.९४) तेन च सुन्दरः। पश्चात् "स्त्रियां गौरादित्वात्" (४।१।४१) इति सूत्रेण ङीष् । तेन सुन्दरीतिसम्बुद्ध्या हृदयद्राविरूपसम्पन्नत्वं नायिकाया व्यज्यते।
तथा च "जेदु जेदु" इत्यतः “पुरुषान्तर"पर्यन्तम् नायकनायिकयोरुत्तरोत्तरसंवादेन "प्रगमनं" नाम प्रतिमुखसन्ध्यङ्गम्--यदुक्तं दर्पणे-“प्रगमनं वाक्यं स्यादुत्तरोत्तरम्" इति । अनुष्टुब्वृत्तम् ॥ १६ ॥
हस्ते गृहीत्वा तां आसने उपवेशयति । उपपूर्वकविशतेर्णिजन्तप्रयोगः। तेन च प्रेमातिशयं द्योत्यते।
विदूषकः-उर्वशी राजानं प्रेक्ष्य प्रेमातिशयात् सर्व समुदाचारं विस्मरन्ती तं भृशं निदिध्यायन्ती अन्तरे विदूषकोपालम्भे पतिता । भवदीये राज्ये कीदृशीयं स्थितिः यत् प्रियवयस्यो ब्राह्मणो न वन्द्यते । कोऽयं युष्माकं शिष्टाचारो यद् वन्दनीयस्य वन्दनरूपं सत्पथः अवमन्यते । अत्र 'हासः'यल्लक्षणं-भाषणाकृतिवेषाणां क्रियायाश्च विकारतः। लौल्यादेश्च परस्थानामेषामनुकृतेरिति ॥ विकासश्चेतसो हासः॥
(उर्वशी ईषद्धसन्ती विदूषकं प्रणमति ।)