पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१८०

पुटमेतत् सुपुष्टितम्
८२
विक्रमोर्वशीये

विदूषकः-सोत्थि भोदीए । [ स्वस्ति भवत्यै। ]

देवदतः-चित्रलेखे ! त्वरयोर्वशीम्----

  मुनिना भरतेन यः प्रयोगो
   भवतीष्वष्टरसाश्रयो निबद्धः ।
  ललिताभिनयं तमद्य भर्ता
   मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥

(सर्वे आकर्णयन्ति । उर्वशी विषादं रूपयति ।)


विदूषकः :-स च स्वीयधर्मानुसारं प्रणमन्त्यै तस्यै स्वस्तीति कल्याणकरेण वचसा मङ्गलमाशास्ते।

देवदूतः-चित्रलेखे ! उर्वशीं त्वरय शीघ्रं सज्जीकुरु ! “ञित्वरा संभ्रमे" (भ्वा. उ. से.) तस्मात् लोटः प्रयोगः ।

मुनिनेति-मुनिना भरतेन नाट्यशास्त्रविधात्रा यः ( अष्टौ च ते रसाश्च अष्टरसा शृङ्गारप्रभृतयः आश्रयन्ते यस्मिन् इति ) अष्टरसाश्रयः सकलरसालङ्कृतः प्रयोगः नाट्यप्रयोगः भवतीषु अप्सरःसु निबद्धः अध्यापनेन स्थापितः, ललितो मनोहारी अभिनयः भावाभिव्यञ्जनं यस्मिन्निति तादृशं हावभावपरिपूर्ण तं प्रयोगविशेषं लोकान् पालयन्ति ते लोकपालाः तैः सह मरुतां देवानां भर्ता इन्द्रः अद्य द्रष्टुमनाः द्रष्टुमिच्छति ।

 यः प्रयोगः भवत्यो भरतेन पाठितः तं साभिनयं प्रयोगं अद्य इन्द्रो दिदृक्षतीति भावः । अत एव उर्वशीं त्वरितं प्रयोगाय सज्जीकुरु ।

 भरतः सङ्गीतनाट्यशास्त्रविधाता । प्रयुज्यते रङ्गाङ्गणेऽभिनीयत इति प्रयोगः ।

 अभिनयति व्यञ्जयति अर्थम् इति अभिनयः अभिनयतीति पचाद्यच् । अभिनयो वाचिकाङ्गिकाहार्यसात्त्विकभेदाच्चतुर्विधः । अभिनयो हि अङ्गविक्षेपादिमयैः हावभावैः इङ्गितैश्च मनोगतार्थव्यञ्जनम् ।

 अनया त्वरया नायकनायिकयोरुत्कण्ठावृद्धिर्विधीयते । एतदेव कवेश्चातुर्य यत् तयोः पारस्परिकं मेलनं बहुधा केनापि दृश्येनान्तरायते । क्वचिद्देवी मध्ये समायाति, क्वचिद्व्यग्रता स्वीयं प्राधान्यं व्यनक्ति; क्वचिन्नायिका च तत्पालकैराहूयते इति विविधैर्हेतुभिः तयोः समागमे जायमाने केनाप्यन्तरायेण तज्जन्येन च वियोगेन पारस्परिकोऽभिलाषः उत्कण्ठा च विवर्धते । तेन चमत्कारातिशयश्च रसिकानां परमप्रमोदजनकः सम्पद्यते । अत्र कृच्छ्रेण मिलितयोः परस्परोद्बुद्धभावयोः नायकनायिकयोः विश्लेषणानिरोधनं नाम प्रतिमुखसन्ध्यङ्गम् । यदुक्तं दशरूपके-“हितरोधो निरोधन"मिति ।

 वृत्तं औपच्छन्दसिकम् । लक्षणं तूक्तमेव प्राक् ॥ १७॥

(इमां घोषणां सर्वे आकर्णयन्ति शृण्वन्ति ।)

(उर्वशी च प्रियविरहजनितं विषादं शोकं रूपयति प्रदर्शयति ।)