पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१९३

पुटमेतत् सुपुष्टितम्
९५
द्वितीयोऽङ्कः

(इति पादयोः पतति)

 देवी-(आत्मगतम्) मा खु लहुहिअआ अणुणों वहु मण्णे किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । [मा खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृतपश्चात्तापस्य बिभेमि । ]

(इति राजानमपहाय सपरिवारा निष्कान्ता)

 विदूषकः-पाउसणदी विअ अप्पसण्णा गदा देवी । णं उठ्ठेहि । [प्रावृण्नदीवाप्रसन्ना गता देवी, ननूत्तिष्ठ । ]


"नाम" कुत्सारूपेऽर्थे । स्वस्यापराधित्वात् अन्यस्त्रीकामुकत्वाच्च कुत्सितत्त्वं विज्ञाप्यते । "नाम" 'सम्भाव्यकुत्साप्राकाश्यविकल्पेष्वपि दृश्यते' इति मेदिनी । नुश्चात्रानुनयार्थे-"नु स्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयो"रिति विश्वः । इह च राज्ञः अनुनयात् पर्युपासनं नाम प्रतिमुखसन्ध्यङ्गम् ।

 अत्र रम्भोरु-संरम्भात् इति एकानुपूर्व्या एवासकृदावृत्त्या छेकानुप्रासालकृतिः "छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा" इति दर्पणोक्तलक्षणात् ।

 इयं च आर्याजातिः-लक्षणं तु प्रागुक्तमेव ॥ २० ॥ इति पादयोः पतति-अनुनयार्थम् । इह तु “पादयोः पततीति" अत्र साम्नि निष्फले सति नतिर्नाम उपायः प्रयुक्तः इति ज्ञेयम् , कुतः अन्यासङ्गिनि प्रिये प्रमदानामीाकृतं मानं “साम्ना भेदेन दानेन नत्युपेक्षारसान्तरै' रिति वचनादेभिः षड्डपचारैः प्रसादनीयमिति अतः इह नतिः शठस्य नायकस्य कृते समीचीना।

 देवी-( आत्मगतम् ) लघुहृदया असंक्षोभ्यहृदया एतादृशैः कृत्रिमानुनयैरद्रुतहृदया अहं अनुनयं प्रणिपातादिकं बहु गुरु न मन्ये । अहं तावदीदृशैः प्रणिपातादिभिः आशु एवानुनेतुमशक्या इदं महाराजकृतं गुरु न चिन्तयामि किन्तु आर्यपुत्रस्य च्छन्दानुवर्तनरूपं यन्मम दाक्षिण्यव्रतं तज्जन्यो भावी यः पश्चात्तापः तस्मात् बिभेमि । यद्यप्यनुनयः न तावत् माम् द्रावयति किंतु भाविनोऽनुतापाद्भीताऽस्मि । अत्र लघुपदस्य हीनत्वं न वाच्यम् , किंतु लघुनाम असंक्षोभ्यम् । पुनरपि अत्र मन्यतेः लडन्तप्रयोगात् माशब्द एव ग्रहणीयः न तु माङ्।

(इति राजानमपहाय त्यक्त्वा सपरिवारा परिजनैः सह निष्क्रान्ता।)

 विदूषकः-प्रावृण्नदीवाप्रसन्ना गता देवी-प्रावृड् वर्षाऋतुः तत्कालीना नदी इव अप्रसन्ना देवी गता। अत्र अप्रसन्नेति पदे श्लेषः-देवीपक्षे अप्रसन्ना क्रुद्धा एव । नदीपक्षे आविला, अनिर्मलजला । यथा वर्षासु नदी अप्रसन्ना आविला भवति तथैव देव्यपि अप्रसन्ना क्रुद्धैव सती गता।


 अत्र च श्लेषप्राणितोपमालङ्कारः । ननु उत्तिष्ठ-ननु प्रार्थनायाम् ।