तावद्धीरता । बुभुक्षितब्राह्मणस्य जीवितमवलम्बतां भवान् । समयः खलु स्नानभोजने सेवितुम् ।।
राजा-(ऊर्ध्वमवलोक्य ) कथमर्धं गतं दिवसस्य । अतः खलु-
उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी
निर्भिद्योपरि कर्णिकारमुकुलान्याशेरते षट्पदाः ।
तप्तं वारि विहाय तीरनलिनी कारण्डवः सेवते
क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥२२॥
न धीरतां धारयितुं प्रभवामि । बुभुक्षितस्य क्षुधितस्य ब्राह्मणस्य जीवितं भोजनं अवलम्बतां भवान् इति उपहासः । समयः खलु स्नानं च भोजनं च स्नानभोजने तयोः सेवनस्य प्राप्तः।
इदानीं भोजनवेला अतिक्रामति ।
राजा-(ऊर्ध्वं सूर्यस्थितिमवलोक्य)
कथं दिवसस्य अर्धं गतम्-कथं मध्याह्नः प्राप्तः इति । पुरा घटिकायन्त्राद्यभावात् गगने सूर्यस्थित्यैव वेलापरिज्ञानं भवति स्म । कथमिति विस्मये ।
यतः मध्याह्नः प्राप्तः अस्माद्धेतो:-किं क्रियते इति विवक्षा श्लोकेन प्रपूर्यते । खलु निश्चये।
उष्णार्त इति-मध्याह्नसमयस्य वर्णनमिदम् । उष्णेन आतः पीडितः शिखी मयूरः तरोः वृक्षस्य शिशिरे शीतले मूलालवाले मूले कृतो जलाधारस्तस्मिन् निषीदति उपविशति । उष्णेन बाधितो मयूरः तरूणां जलाधारेषु शीतले जले उपविशतीति भावः । अनेन दिने बलवान् ऊष्मा जात इति गम्यमानत्वात् मध्याह्नवेलेयमिति अनुमीयते। षट्पदाः भ्रमराः कर्णिकारपुष्पाणां मुकुलानि कलिका निर्भिद्य विदीर्य आशेरते स्पपन्ति विश्राम्यन्ति वा । उष्णत्वात् भ्रमरा अपि निद्रां लभन्ते इत्यनेन मध्याह्नकालोऽनुमीयते । कारण्डवः पक्षिविशेषः तप्तं सूर्यातपादुष्णं वारि जलं विहाय परित्यज्य तीरस्थां नलिनीं कमलिनीं सेवते । नलिन्याः शीतलत्वात् तत्र सुखम् । अनेनापि मध्याह्नसमयोऽनुमीयते । एषः क्लान्तः तृषयोद्विग्नः पञ्जरशुकः पञ्जरस्थः कीरः क्रीडावेश्मनि लीलागृहे जलं याचते । मध्याह्नकाले तृषा बलवत्तरं बाधते अत एव जलं याचते । इति चिह्नचतुष्टयप्रदानेन मध्याह्नसमय एष सम्प्राप्त इति निश्चीयते ।
शिखी-शिखा चूडा मयूराणां शिरोवर्तिनी। सा यस्यास्तीति शिखी मयूरः-
"शिखावलः शिखी केकी" इत्यमरः । षट् पादाः येषां ते षट्पदा भ्रमराः ।
अत्र च स्वभावोक्तिरलङ्कारः । सर्वेषां खभावोऽयं यत् उष्णेन बाध्यमानाः
शीतलं स्थलं विचिन्वन्ति ।