पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२०

पुटमेतत् सुपुष्टितम्

१४

स्ववास्थां वर्णयति। उर्वशी मर्षयतु मेऽपराधं महाराज इति क्षमापयति ।. राजा च नाहं प्रसादयितव्यः, त्वत्समागमेन प्रसन्नो मे सबाह्यान्तरात्मा, तत्कथय कथमियन्तं समयं मद्विप्रयुक्ता त्वमनैषीरिति तामपृच्छत् । उर्वशी च "पुरा भगवता महासेनेन शाश्वतं नैष्टिकं व्रतं गृहीतम् , अध्यासितञ्चेदं गन्धमादनवनम् । शप्तं चेदं यत् या किल स्त्री इदं वनं समागमिष्यति सा लताभावं प्राप्स्यति इति । गौरीचरणरागसम्भवस्य मणेर्लाभश्च शापान्तः कृतः। अहञ्च गुरुशापसंमूढहृदया स्त्रीजनपरिहरणीयं रमणीयकुमारवनं प्रविष्टा लतात्वञ्च प्राप्ता" इत्याह । राजा समागमकारणं सङ्गममणिं प्रियायै दर्शयति । तथा च स्ववचनानुसार तं ललाटेsभिनिवेशयति । उर्वशी च "प्रियंवद ! महान् खलु कालः संवृत्तः आवयोः प्रतिष्टानान्निर्गतयोरित्यतः तत्रास्माभिर्गन्तव्यमिति" राजानमाह । अङ्गीकृते तु तस्याः प्रस्तावे, राजानं सा कथं गन्तुमिच्छति महाराज इति पृच्छति । राजा नवं पयोमुचं विमानं परिकल्प्य नगरं नेतुं तां निवेदयति । उर्वशी च तथैव करोति ।

   "प्राप्तसहचरीसङ्गमः पुलकप्रसाधिताङ्गः ॥
   स्वेच्छाप्राप्तविमाने विहरति हंसयुवा ॥"

इति हंसान्योक्त्या विरहोपक्रमानुसारं अन्तिममपि तथा उपसंहरतः कविपण्डितस्य कलाकौशलं निपुणं प्रेक्षमाणानां सामाजिकानां अग्रतः इत्थं नायिका नायकश्च रङ्गभूमितो निष्क्रान्तौ ॥

॥ इति चतुर्थोऽङ्कः॥


॥ पञ्चमोऽङ्कः॥

 अथ कविताकुमुदिनीचन्द्रः कवीन्द्रः सर्वं सुस्थं सम्पादयितुं रतेः परां भूमिं दर्शयित्वा, विप्रयोगेण प्रेम्णः परम्परां वर्धयित्वा, नियताप्तिं विधातुं, निर्वहणसन्धिं प्रारिप्सुः विदूषकमुखेनाग्रिमकथोपन्यासाय तत्प्रवेशमाह ।

 राज्ञः समागमेन सन्तुष्टो विदूषकः चिरेणोर्वशीसहायो राजा नन्दनवनप्रभृतिषु प्रदेशेषु विहृत्य प्रतिनिवृत्तोऽधुना स्वराज्यकार्यनिर्वहणपरायणः सन् प्रकृतिमनुरञ्जयन् विद्यत इति राज्ञः प्रतिष्ठाने प्रतिष्ठानानन्तरं कीदृशी दशेति सूचयति । शोभते चासौ यतो निःसन्ततित्वमपहाय राजा सुस्थ एव । तथा च अद्य कश्चन तिथिविशेष इति कृत्वा देव्या सह गङ्गायमुनयोः सङ्गमे कृताभिषेकस्तिष्ठति । इति सर्वां राज्ञः परिस्थितिं विज्ञाप्य विदूषकः परिक्रामति ।

 नेपथ्ये धिगिति शब्दं सङ्गममणिः आमिषशङ्किना केनचन गृध्रेणाक्षिप्त इति विज्ञापनां च श्रुत्वा विदूषकः अत्याहितम् अत्याहितमिति खेदं प्रकाशयन् राज्ञः असमाप्तनेपथ्यविधानावस्थायामेव प्रवेशं सूचयति । ततः सूतः कञ्चुकी वेधकं सपरिजनश्च राजा प्रविशन्ति । राजा च वेधकं क्वासौ विहगकुम्भीलको गत इति पृच्छति । किरातश्च मुखे न्यस्तकनकसूत्रं मणिमादायोड्डयमानं गृध्रं दर्शयति। विदूषकश्च राजानमुपेत्य तं गृध्रं दण्डयितुं प्रार्थयते । राजा धनुषे समाज्ञापयति । यावता