तदादेशय मणिहर्म्यपृष्ठस्य मार्गम् ।
विदूषकः-इदो इदो एदु भवम् । इमिणा गंगातरंगसिसिरेण फलिअमाणिसिलासोवाणेण आरोहदु भवं सव्वदा रमणीअं मणिहम्मपिट्ठअलम् । [इत इत एतु भवान् । अनेन गङ्गातरङ्गशिशिरेण स्फटिकमणिशिलासोपानेनारोहतु भवान्सर्वदा रमणीयं मणिहर्म्यपृष्ठतलम् ।]
(राजा आरोहति । सर्वे सोपानारोहणं नाटयन्ति ।)
विदूषकः-(निरूप्य) पच्चासण्णेण चंदोदएण होदव्वम् । जह तिमिरेण अदिरेचीअमाणं पुव्वदिसामुहं आलोहिअप्पहं दीसदि । [प्रत्यासन्नेन चन्द्रोदयेन भवितव्यम् । यथा तिमिरेणा- तिरिच्यमानं पूर्वदिशामुखमालोहितप्रभं दृश्यते।]
राजा-सम्यग्भवान् मन्यते ।
उदयगूढशशाङ्कमरीचिभिस्तमसि दूरतरं प्रतिसारिते।
मानिनीनां कामिनीनाम् स्वभावोऽयमिति स्फुटतया व्यञ्जितम् । इयं चार्याजातिः ॥५॥
तत् अत एव मणिहर्म्यपृष्ठस्य मार्गं आदेशय दर्शय ।
विदूषकः-इत इतः अनेन मार्गेण भवानेतु आगच्छतु अनेन पुरो दृश्यमानेन गङ्गायास्तरङ्गैः शिशिरेण शीतलेन स्फटिकमणिशिला तनिर्मितेन सोपानेन आरोहणेन आरोहतु भवान् सर्वदा रमणीयं मनोहारि मणिहर्म्यस्य पृष्ठतलम् उपरितना अलिन्दभूमिम् । “आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी" इत्यमरः!
(राजा आरोहति । सर्वे सोपानेन आरोहणं नाटयन्ति ।
विदूषकः-चन्द्रोदयेन प्रत्यासन्नेन अचिरम्भाविनैव भवितव्यम् शीघ्रमेवेदानी चन्द्रोदयो भविष्यतीत्यर्थः । यथा तिमिरेणान्धकारेण अतिरिच्यमानं रहितं पूर्वदिशामुखं आलोहितप्रभं ईषद् रक्तकान्तिकं दृश्यते ।
राजा-भवान् सम्यग् युक्तमेव मन्यते विचारयति ।
उदयगूढेति-उदये उदयाचले गूढः च्छन्नः अन्तर्हितो वा शशाङ्कः चन्द्रमाः तस्य मरीचिभिः किरणैः तमसि अन्धकारे दूरतरं अत्यन्तदूरं प्रतिसारिते निष्कासिते द्राविते सति, हरिः अश्वः वाहनं यस्य सः हरिवाहनः इन्द्रः तस्य तेन पालिता वा या दिग् प्राची तस्याः मुखम् अलकानां केशानां संयमनात् मुखादपसारणात् इव मे लोचनं हरति आकर्षति ।