अलकसंयमनादिव लोचने हरति में हरिवाहनदिङ्मुखम्॥६॥
कस्या अपि कामिन्या मुखचन्द्राद् दूरीकृते तु केशपाशे यथा वा तस्याः मुखं लोचनहारि भवति तथैव ऐन्द्रीदिमुङ्मुखम् चन्द्रमरीचिभिः दूरीकृते तमसि मम नयनयुगमपहरतीति भावः ।
अनेन नायकस्य विविधविलासिनीभुजङ्गमत्वं प्रदश्यते । हरिवाहनदिङ्मुखम् केशापसारणेन कामुकस्य चित्ताकर्षकं भवतीति व्यञ्जनात् समासोक्तिः ।
अलकसंयमनादिवेति उत्प्रेक्षालारः । उपमा च ध्वन्यते । यथा अलकसंयमनात् रमणीयरमणीमुखं चैतो हरति तथैवेदं दिङ्मुखमिति ।
कालिदासमते अलकानां मुखोपर्यागमनात् वदनारविन्दसोदर्यसौन्दर्यापगमात् केशनियमनेन मुखस्य चित्तहारित्वं नागरिकाणात् । चतुर्थपादे च अनुप्रासालङ्कारः । माधुर्याख्यो गुणः । वृत्तं चापि सुशोभनं रसानुकूलम् ।
इह च "हरिवाहनदिङ्मुखम्" इति पदप्रदानेन प्राचीदिङ्मुखमित्युपयोगतिरस्कारेण च हरिवाहनेनेन्द्रेण परिपालिताया उर्वश्या मुखं यथा मे लोचनं हरति तथैवेदं दिग्रुखमिति च ध्वन्यते । अनेन चन्द्रोदये कामिन्या वदनपद्मं अतीव मनोहारि शोभनं च भवतीति सूच्यते । शशाङ्कस्योदयगूढखप्रदानेन उदयाचलस्य प्राच्यां सद्भावात् ऐन्द्रीमुखं चन्द्रमाश्चुम्बतीति व्यक्तम् । अनेन च शशाङ्कदिशोर्नायकनायिकाभावो गम्यते । इतरत्रापि “इदमैन्द्रीमुखं पश्य रक्तचुम्बति चन्द्रमाः" इति अप्पयदीक्षिताः । तत्र च रहोभावार्थं नायिकानायकयोर्मध्ये परेषामवस्थानमसुन्दरमिति न्यायेनैव अन्तरायभूतं तमः पूर्वमेव दूरतरं प्रतिसारितम् । न केवलं दूरमेवापसारितम् किन्तु दूरतरं, कुतः गते त्वन्यस्मिन् दूरतरं, केनापि अदृश्यवादश्रव्यत्वाच्चादधिकविस्त्रब्धत्वम् ।
उदयगूढशशाङ्कमरीचिभिरित्यत्र रङ्गनाथेन "उदयगूढा उदयाचलेन च्छन्नाः" इति समासव्यासकरणेन उदयगूढत्वं मरीचिभिः साकं अन्वितमिति प्रकटमेव । तत्तावदसमीचीनम्-कुतः-गूढासु मरीचिषु तमोनिःसारणमसम्भवम् । उदयगूढपदस्य शशाइपदेनाव्यवहितसात् तेनैव सहान्वयः साधुः । ततश्च शशाङ्केन सह उदयगूढस्य विशेष्यविशेषणभावात् शशाङ्कस्य ऐन्द्रीदिङ्मुखस्य अधिकसन्निहितत्वं भवति । तेनोदयगूढः शशाङ्क इत्यन्वय एव साधुः । एवं कृतेऽपि उदयगूढस्यापि शशाङ्कस्योर्ध्वमुखीभिर्मरीचिभिस्तमसोऽपाकरणं भवितुमर्हत्येव । यथाह वान्यत्र तत्रभवान् कविः-
सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान् परिवर्तमानः । |
हरिवाहनः इन्द्रः “जम्भमेदी हरिहयः" इत्यमरः । हरिवाचकहयस्येदं लक्षणम्----
"त्वक्केशबालरोमाणि सुवर्णाभानि यस्य तु। |