पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२१०

पुटमेतत् सुपुष्टितम्
११२
विक्रमोर्वशीये

 विदूषकः-हीही भो, एसो खण्डमोदअसरिसो उदिदो राआ ओसधीणम् । [हीही भोः! एष खण्डमोदकसदृश उदितो राजा ओषधीनाम् ।]

 राजा-(सस्मितम् ।) सर्वत्रौदरिकस्याभ्यवहार्यमेव विषयः । (प्राञ्जलिः प्रगम्य) भगवन् ऋक्षराज!


 तादृक् हरिः हयो वाहनं यस्येति स इन्द्रः ।

 सन्ध्यासमयवर्णनमिदं काव्यशोभाप्रदम् । यतः कविभिः प्रातःसन्ध्यादिस्वभाववर्णनं काव्याभरणभूतं सम्मतम् ।

 आङ्ग्लेष्वप्येतन्मन्यते यत् भगवान् शीतरश्मिः पर्वतान्तरितो भवति । यथाह तत्रभवान् मिल्टन (Milton) पण्डितः-

"The sun to me is dark,
 And silent is the moon,
When she deserts the night
 Hid in her vacant interlunar cave."

 वृत्तञ्च द्रुतविलम्बिताख्यम् । 'द्रुतविलम्बितमाह नभौभरा' विति लक्षणयोगात्॥६॥

 विदूषकः-हीही इति विस्मये । भोः इति सम्बोधनम् । खण्डेन सितया निर्मिता मोदकास्तत्सदृशः स्वच्छः ओषधीनां नक्षत्राणां राजा अधिपतिश्चन्द्रः उदितः। "हीही चित्रे स्याता"मिति सागरः।

 ओषधिः-ओषो दीप्तिर्धीयते यत्रेति ओषधिः नक्षत्रम् ।

 अनेन खण्डमोदकसदृशेत्युपमानेन विदूषकस्य भोजनप्रियत्वं व्यज्यते।

 राजा-(सस्मितम्-ईषद्विहस्य)

 सर्वत्र औदरिकस्य भोजनप्रियस्य अभ्यवहार्यं भोज्यमेव विषयः । भोजनप्रियाय सर्वत्र भोज्यमेव दृश्यते नान्यदिति भावः ।

 उदरे एव प्रसित इति औदरिकः "उदराठ्ठगाद्यूने” इति ठक्प्रत्ययः।

 (प्राञ्जलिः अञ्जलिं बध्वा प्रणम्य) अञ्जलिस्तु यदुकम् “पताकाहस्ततलयोः संश्लेxदञ्जलिर्मतः ।" देवतागुरुविप्राणां नमस्कारेष्वयं क्रमः ।

 भगवन् ऋक्षाणां नक्षत्राणां राजा इति ऋक्षराजः चन्द्रः तत्सम्बुद्धौ है ऋक्षराज ! राजाहःसखिभ्यष्टच् । “ऋषति-ऋषी गतौ" (तु. प. से.) "सुव्रश्चिकृत्वषिभ्यः कित्" : "ऋक्षस्तु स्यात् नक्षत्राच्छभल्लयो"रिति हैमः।