रविमाविशते सतां क्रियायै सुधया तर्पयते पितॄन्सुरांश्च । |
विदूषकः-भो वम्हणसंकामिदक्खरेण दे पिदामहेण अब्भणुण्णादो सि । ता आसणगदो होहि जेण अहं वि सुहासीणो होमि।[भोः ब्राह्मणसंक्रामिताक्षरेण ते पितामहेनाभ्यनुज्ञातोऽसि । तदासनगतो भव येनाहमपि सुखासीनो भवामि ।]
रविमिति-सतां सज्जनानां वेदविहितकर्मकर्तृणां क्रियायै दर्शपूर्णमासपिण्डपितृयज्ञाद्यनुष्ठानसिध्यर्थ रविं सूर्यम् आविशते प्रविशते, पितॄन् तदाख्ययोनिविशेषस्थानदेवताः सुरांश्च देवान् अनृतेन तर्पयते प्रोणयते, निशि रात्रौ मूर्छतां घनीभूतानां प्रवर्धमानानां तमसां निहन्त्रे नाशकाय, हरस्य शिवस्य चूडायां जटाजूटे निहितः स्थापितः आत्मा स्वरूपं कला वा येन तस्मै ते तुभ्यं नमः।
भगवन् सुधांशो! भवान् साधूनां कार्यसिध्यै रवितेजसि गूढो भवति । एकैककलाक्षयेण अमावास्यायां समस्तकलाहीनो भवति चन्द्रः । दर्शाख्यहोमस्य अमावास्यायां विहितत्वात् । मीमांसाप्रकरणमिदम् । “चन्द्रमा वा अमावास्यायां आदित्यमनुप्रविशति । सोऽन्तर्धीयते तं न निर्जानन्तीति" ऐतरेयब्राह्मणश्रुतत्वादिन्दोः सूर्यसङ्गमः प्रमाणीक्रियते । पुनश्च भवान् पितॄन् देवांश्च तर्पयति । यदुक्तं, “प्रथमां पिबते वह्निः "हुतमग्निषु यज्ञेषु पुनराप्याख्यते शशी, दिने दिने कलावृद्धिः पौर्णमास्यां तु पूर्णता ।" तथा च भवान् अन्धकारनिहन्ता । अपि च भवान् शिवशिरसि स्थापितैककलो भवन् हरसेवकः । एतादृशे भवते नमः इति भावः । अत्र राज्ञः सोमवंशीयत्वात् चन्द्रदेवताविषयकरतिप्रतिपादनेन प्रेयोऽलङ्कारो रत्याख्यो भावश्च व्यज्यते । अनेन राज्ञः धार्मिकत्वं च सूच्यते।
औपच्छन्दसकवृत्तम् ॥ अर्घसममिदं वृत्तम् । यत्रायुक्पादे सगणद्वयं जकारो गुरुद्वयं च तथा च युक्पादे सगण-भगण-रगण-भगणास्तवृत्तं तदाख्यम् ॥ ७ ॥
विदूषकः- भो इति । ब्राह्मणद्वारा सङ्ग्रामितानि प्रेषितान्यक्षराणि येन तादृशा तव पितामहेन चन्द्रेणाभ्यनुज्ञातोऽसि अनुमतोऽसि । तवाभिलषितेषु सहमतो भगवान् सुधांशुरिति भावः । तथा च स्वीयाभिमतत्वं मदीयब्राह्मणमुखेन प्रकाशितम् ।
अत आसनगतो भव । अत्रोपविश इत्यर्थः । येन भवतां आसीनत्वेनाहमपि सुखासीनः सुखेनोपविष्टः भवामि । उपवेष्टुमर्हति भवान् येनाहमप्युपविशामीति भावः । राज्ञः चन्द्रवंशित्वाच्चन्द्रस्य तस्य पितामहत्वम् ।