पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२१३

पुटमेतत् सुपुष्टितम्
११५
तृतीयोऽङ्कः

 नद्या इव प्रवाहो विषमशिलासङ्कटस्खलितवेगः ।
 विघ्नितसमागममुखो मनसिशयस्त्वनुगुणो भवति ॥ ८॥

 विदूषकः-जहा परिहीअमाणेहिं अंगेहिं सोहसि तहा अच्छरेहिं समागमं दे पेक्खामि । [याथा परिहीयमाणैरङ्गैः शोभसे तथाप्सरोभिः समागमं ते प्रेक्षे।]


 अत एव प्रतिमुखसन्धौ लक्ष्यालक्ष्यरूपतया स्तोकोद्भिन्नस्योर्वशीविषयकानुरागबीजस्य अस्मिन्नङ्के सविशेषोद्भेदपूर्वकः सान्तरायो लाभः, पुनर्देव्यागमनेन विच्छेदः, पुनः प्राप्तिः पुनर्विच्छेदः पुनश्च तस्यैवान्वेषणं वारंवारं सोऽनिर्धारितैकान्तफलप्राप्त्याशात्मको गर्भसन्धिरितः प्रवर्तते ।

 नद्या इवेति-विषमाः निम्नोन्नताः शिलाः प्रस्तराः तासां सङ्कटेन सङ्घर्षेण स्खलितो भग्नः वेगः गतिः यस्य सः नद्या प्रवाह इव विघ्नितं विमुखीभूतं समागमजन्यं सुखम् यस्येति सः मनसिशयः मम कामस्तु अनुगुणप्रेमानुवर्ती एवास्ति ।

 भावार्थस्तु------ यथा नद्याः प्रवाहः विषमपाषाणेषु भग्नो भवति तथैव ममापि कामः समागमसुखान्तरितत्वेन भग्नोऽपि सन् अनुगुणः प्रीतिजनक एवास्ते इति भावः । यद्यपि समागमसुखाभावतो मम कामो विघ्नितस्तथापि मम प्रीतिस्तु अस्खलिता एवेति भावः । यद्यपि प्रीत्युच्छेदस्य कारणं विद्यते तथापि प्रीतिस्तु अस्खलिता एवास्ते । यथा नद्या प्रवाहः पाषाणेषु स्खलितोऽपि सन् पुनः अनुगुणः समो भवति । एतदेवाहू रवीन्द्रनाथठक्कुरकविप्रवराः-

  "Trust love even if it brings sorrow. Do not close up your heart." (Tagore )

 अत्रोपमालङ्कारः । नदीप्रवाहवेगयोर्विषयविषयिणोः स्खलितप्रसरत्वं साधर्म्यम् । तथा च विघ्नितसमागमस्य प्रीतिप्रातिगुण्ये कारणलम् । ततश्च विद्यमानेऽपि प्रातिगुण्यस्य कारणे कार्याभावस्वेन च विशेषोकिरलङ्कारः, तल्लक्षणं च-"कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरद्वीपे ज्वलत्यपि ॥" तथा च आनुगुण्यस्य कारणप्रातिकूल्येपि कार्यनिष्पत्तिस्तस्साच विभावनालङ्कारः। "विभावना विनापि स्यात् कारणं कार्यजन्म चेदिति" कुवलयानन्दे । उभयोश्च सङ्करः । अनेन नायकस्य प्रेमातिशयत्वं द्योत्यते तया च प्रेम्णः लोकविरोधित्वं गम्यते यतः प्राप्तिविघ्नेऽपि पुनः पुनरनुसन्धानम् ।

 मनसि शेते इति मनसिशयः कामः सप्तमी अलुक्समासः। अनुगमः अनुकूल: प्रेमानुबन्धी एव । आर्या जातिः॥८॥

 विदूषकः- यथा परिहीयमाणैः क्षीणैरपि अङ्गैः शोभसे तथा अत एवं अप्सरोभिः उर्वशीप्रमुखाप्सरोभिः ते तव समागमं मेलनं प्रेक्षे। अचिरादेव भावी समागमः इति सारः।