पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२१५

पुटमेतत् सुपुष्टितम्
११७
तृतीयोऽङ्कः ।

हरणभूसिदो णीलंसुअपरिग्गहो अहिसारिआवसो।[सखि! रोचते ते मेऽयं मुक्ताभरणभूषितो नीलांशुकपरिग्रहोऽभिसारिकावेषः ।]

 चित्रलेखा-णत्थि मे वाआविहवो पसंसिदुम् । इदं तु चिंतेमि । अवि णाम अहं एव पुरूरवा भवेअं त्ति। [नास्ति मे वाग्विभवः प्रशंसितुम् । इदं तु चिन्तयामि । अपि नामाहमेव पुरूरवा भवेयमिति।]

 उर्वशी-सहि, असमत्था क्खु अहम् । तुमं आणेहि तं सिग्धम् । णेहि में तस्स वा सुहअस्स वसदिम् । [ सखि! असमर्था खल्वहम् । त्वमानय तं शीघ्रम् । नय मां तस्य वा सुभगस्य वसतिम् ।]


 सखि ! ते रोचते ममाऽयं वेषः मुक्ताभरणभूषितः मुक्तानि परित्यक्तानि आभरणानि यस्मिन् तथापि अत एव वा भूषितः स्वाभाविकाङ्गसौष्ठवशालित्वात् सुन्दरः नीलांशुकस्य नीलवस्त्रस्य परिग्रहः स्वीकारो यस्मिन् एतादृश अभिसारिकायाः वेषः ते रोचते न वा इति प्रश्नः ।

 अङ्ग उर्वशी कृष्णाभिसारिका । अतः अनया सर्वं कृष्णमेव परिधेयम् । यदि किञ्चिदपि दीप्तं वस्तु परिगृहीतं चेत् परिज्ञेया एव भविष्यति । अतो मुक्ताभरणभूषितः इत्यत्र मुक्ताफलानां आभरणैर्भूषित इति कर्तुमसाम्प्रतमेव साधारणधिया मुक्ताफलानां दीप्तिमत्त्वात्कृष्णाभिसारिकावेषविरोधित्वात् । अनेन कृष्णाभिसारिकायाः नीलांशुकधारणं निरलङ्कारत्वं च प्रकटितम् । कवीन्द्रैः श्रीमद्रवीन्द्रनाथठक्कुरमहोदयैरभिसारिकावर्णने सम्यगिदं भणितं यत्-

  "When I go alone at night to my love-tryst, birds do not sing, the wind does not stir, the houses on both sides of the street stand silent....... It is the jewel at my breast that shines and gives light. I do not know how to hide it.”

 परिग्रहस्तु स्वीकारः “परिग्रहः कलत्रे च मूलस्वीकारयोरपि । शपथे परिवारे च राहुवक्रस्थभास्करे" इत्यजयः।

 तथा च सुन्दरीणां प्रायशः स्वभावोऽयं यत् विहिते तु कस्मिश्चिदपि चारुणि नेपथ्ये ताभिः सखीषु परस्परपरामर्शः क्रियते यत् तद्रुचिरं दृश्यते न वेति । इति स्वभावपरिख्यापनम् ।

 चित्रलेखा-कीहक्सुन्दरोऽयं वेष इति प्रशंसितुं मे वाग्विभवः वर्णनशत्किः नास्ति । वाचां विभवः ऐश्वर्यं सामर्थ्यं वा नास्ति । इदं तु चिन्तयामि कल्पयामि यदहमेव तव प्रियः पुरूरवा विक्रमो भवेयम् ततः परिशीलयितुं प्रभविष्यामि ते वेषसौष्ठवम् । इह "अपि नामेति" सम्भावनायाम् ।

 अनेन चित्रलेखायाः हास्यकारकखभाववत्वं सूचितम् ।

 उर्वशी-अहं असमर्था खलु । विरहव्यथां सोढुं न प्रभवाम्यहमतः त्वं तं मम प्रियं शीघ्रं वेलातिपातं विनैवानय । अथवा मां तस्य सुभगस्य प्रियस्य क्सति निवासस्थानं नय प्रापय ।

 अनेन विरहकातरत्वं सूचितम् नायिकायाः । तथा च औत्सुक्यं च व्यज्यते ।