चित्रलेखा-णं पडिविविअं विअ जामिणीजमुणाए केलाससिहरसस्सिरीअं दे पिअदमस्स भवणं उवगदम्ह । [ननु प्रतिविम्बितमिव यामिनीयमुनायां कैलासशिखरसश्रीकं ते प्रियतमस्य भवनमुपगते स्वः।]
उर्वशी-तेण हि प्पहावेण जाणाहि कहिं सो मम हिअअचोरो किं वा अणुचिट्ठदि त्ति । [ तेन हि प्रभावेण जानीहि कुत्र स मे हृदयचोरः किं वानुतिष्ठतीति ।]
चित्रलेखा-(आत्मगतम् । ) भोदु । कीडिस्सं दाव एदाए सह। (प्रकाशम्) हला, दिट्ठो मए उवहोगक्खमे अवआसे मणोरहलद्धं पिआसमागमसुहं अणुभवं तो चिट्ठदि त्ति । [भवतु । क्रीडिष्ये तावदेतया सह । सखि ! दृष्टो मयोपभोगक्षमेऽवकाशे मनोरथलब्धं प्रियासमागमसुखमनुभवंस्तिष्ठतीति ।]
चित्रलेखा--- यामिनीयमुनायां रात्रिस्थयमुनायां प्रतिबिम्बितमिव, कैलासपर्वतस्य शिखरेण समाना तुल्या श्रीः शोभा यस्य तत् कैलाससदृशशोभाशालिनं ते प्रियतमस्य पुरूरवसः भवनमुपगते प्राप्ते स्वः ।
प्रतिबिम्बितमिवेत्यत्रोत्प्रेक्षालङ्कारः, कैलासेत्सत्र शोभायाः समानखादुपमालकृतिश्चोभयोश्च संसृष्टिः।
उर्वशी-तेन हि अत एवं प्रभावेण अप्सरसां प्रभावविशेषेण जानीहि कुत्र कस्मिन् स्थाने स मे हृदयचोरः हृदयापहारी प्रियतमो वर्तते तथा च किंवा अनुविष्ठति करोति । कुत्र किं कुर्वन् मे प्रिय आस्ते इति जानीहि स्वप्र- भावेणेत्यर्थः।
अनेन मम हृदयं अविज्ञातमेव गृहीतमिति बोधेन नायकस्य गाढं प्रणयं व्यनकि।
चित्रलेखा-(आत्मगतम्) भवतु अस्तु । एतया मम प्रियसख्या सह क्रीडिष्ये उपहासं करिष्ये । (प्रकाशम् ) सखि ! मया उपभोगक्षमे उपभोगयोग्येऽवकाशे स्थाने मनोरथलब्धमिच्छानुसारप्राप्तं प्रियासमागमसुखं रतिसुखमनुभवन् तिष्ठति ते प्रियतमः इति दृष्टः।
अनेनान्यनायिकाकामुकत्वं दर्शयन्ती चित्रलेखा उर्वशीगतप्रीतिलाघवम् प्रकटयन्ती उपहसति तावत् प्रियसखीम् । यतः अत्र पत्नीभार्याललनाप्रमदादिपदान्यधिक्षिप्य प्रियापदाङ्गीकारेण प्रीतिपात्रत्वं तस्या व्यक्तम्, उर्वश्यां च तादृक्प्रीत्यभाव इति दर्शितम्-किन्तु उपहासोऽयम् । अत्र सव्याजवचनाश्रयात् "xxxxxx नाम" गर्भसन्ध्यङ्गम्, "तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम्"।