पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२१९

पुटमेतत् सुपुष्टितम्
१२१
तृतीयोऽङ्कः

मनसिजरुजं सा वा दिव्या ममालमपोहितुम्
 रहसि लघयेदारब्धा वा तदा̈श्रयिणी कथा ॥ १०॥


 सरलार्थस्तु-अप्रतीकारामिमां मदनव्यथां व्यपोहितुं न च मृदुशीतलं नूतनकुसुमास्तरणं शक्नोति, न चापि चन्द्रसेवनम् , न चन्दनचर्चनम् नापि च मुक्ताहारसेवनं किन्तु यदि केनाप्युपायेन रुगियं परिहार्या तदा सा स्वर्गीयोर्वशी एव तद्वियोगदूनं मो समुज्जीवयितुं प्रभवति अथवा तद्गुणख्यापिनी कथा वा ममेमां बाधां कथञ्चिल्लघयितुं शक्ता भवेत् इत्यर्थः ।

 प्रत्यग्रम्-प्रति नवं अग्रं यस्येति प्रत्यग्रम् । मलयाचले समुत्पन्नमिति मलयजं चन्दनम्, चन्दनस्य तत्रोत्पत्तेः । सर्वाङ्गीणम्-सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणं खश् प्रत्ययः । मणियष्टयः-मुक्ताहाराणां शीतलत्वाङ्गीकारः कविसम्प्रदायः यथा भवभूतिनापि-"अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः” । “यष्टिः शस्त्रान्तरे चैव हारे हारात्परेपि च ।" इति विश्वः । दिवि भवा दिव्या। अलं समर्था । अपोहितुं दूरीकर्तुम् । सैवाश्रयो यस्याः सा तदाश्रयिणी ।

 अत्र प्रत्याविशेषणप्रदानेन कुसुमानां सद्योऽवचितत्वं शीतललाधिक्यं च सूचितम् । चन्द्रमरीचय इत्यत्र मरीचिपदग्रहणेन जाड्यनाशकत्वं विशेषेण व्यकम्-म्रियते तमोऽस्मिन्निति मरीचिरिति व्युत्पत्तेः "मृकणिभ्यामीचिः" (उ. ४७०)। चन्दनस्य सर्वत्र देहे लेपेन तापशान्तेरवश्यम्भावः । तेनापि तापस्यास्याशान्तिरेव । मणियष्टय इत्यत्र यष्टिपदग्रहणेन मौक्तिकसराणां निबिडत्वं बाहुल्यं च गमितम् । अनेन तापस्य विशेषतया आधिक्यं द्योतितम् प्रीतिबाहुल्यं च सूचितम् ।

 अत्र तुल्ययोगितालङ्कारः। यदुक्तं “वर्णानामितरेषां वा धर्मेक्यं तुल्ययोगिता"।

 अत्र प्रतिषेधार्थकस्य नञः पुनरावृत्तावपि नानवीकृतलम् । यतः नकारस्य प्रतिकोटितापस्य आधिक्यप्रदर्शनाय नितान्तमपेक्षा। प्रसादाख्यो गुणः । अत्र प्रथमचरणे नास्ति किंचन समुच्चयार्थकं विकल्पसूचकं वाव्ययम् , अतः न्यूनपदतादोषः; पुनश्च द्वितीयचरणे आदौ चकारं प्रयुज्योत्तरत्र विकल्पसूचकं वेतिपदम्, अतस्तत्र प्रक्रमभङ्गः । तृतीयचरणे “वा" पदम् निरर्थकं विकल्पाभावात् ; सैवेत्यस्यावधारणस्य चावश्यं प्रयोज्यत्वेपि विरोषसूचकस्य च "किन्तु" पदस्याप्यदर्शनादत्र न्यूनपदताख्यदोषः । एवं प्राप्तस्य समस्तदोषकदम्बस्य परिहारः एवं विधेयः। आदावत्र प्रथमः कल्पः तावत् यदन प्रथमार्धे सर्वत्र समुच्चयो विधेयः। एवं कर्तुं प्रथमचरणे "न चन्द्रमरीचयः" इत्यत्र "न चेन्दुमरीचयः" इति पाठो विधेयः; द्वितीयचरणे च "न मौकिकयष्टयः" इत्यनेन परिवर्तनेन दोषः समाधेयः। अथवा "न वा मणियष्टयः" इत्यत्र वापदम् “वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे । समुच्चये चेति" मेदिनीवचनमनुरुध्य समुच्चयार्थकं मत्वा कथञ्चिद्दोषोऽपनेतव्यः। द्वितीयस्तावद्वरीयान् कल्पः अयं प्रतिभाति यत् पूर्वार्धे सर्वत्रैष सहृदयसम्मतः विकल्पार्थोऽसीकर्तव्यः । अस्मिन् मते एवं पाठपरिवर्तनं समञ्जसम्----

  ११ विक्र०