पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२२

पुटमेतत् सुपुष्टितम्
१२४
विक्रमोर्वशीये

 उर्वशी-किं दाणीं अवरं विलंबिस्सं । (सहसोपगम्य) हला चित्तलेहे ! अग्गदो वि मए ट्ठिदाए उदासीणो महाराओ । [ किमिदानीमपरं विलम्बिष्ये । (सहसोपगम्य) सखि चित्रलेखे! अग्रतोऽपि मम स्थिताया उदासीनो महाराजः।]

 चित्रलेखा-(सस्मितम् ) अदितुवरिदे ! असंक्खित्ततिरक्करिणी असि । [अतित्वरिते! असंक्षिप्ततिरस्करिण्यसि ।]

(नेपथ्ये)

 इदो इदो भट्टिणी । [इत इतो भट्टिनी।]

(सर्वे कर्णं ददति । उर्वशी सख्या सह विषण्णा)

 विदूषक:-अयि भो! उवट्ठिदा देवी । वा सुमुद्दिदमुहो होहि । [अयि भो! उपस्थिता देवी । तत्सुमुद्रितमुखो भव ।]

 राजा-भवानपि संवृताकारमास्ताम् ।


 उर्वशी-इदानीं तत्समीपमुपगन्तुं किमर्थमहं विलम्बं करोमि । (सहसा उपगम्य-तस्य पुरः गला) सखि चित्रलेखे! अग्रतोऽपि स्थितायाः पुर एव विद्यमानायाः मम महाराजः उदासीनो मयि अनवहितचेताः आस्ते । मां न लक्षयतीति भावः।

 स्थितायाः इति “षष्ठी चानादरे" इत्यनेन लघूकरणे षष्ठी।

 चित्रलेखा-(सस्मितमुपहस्य) अयि अतित्वरिते अधीरे! असंक्षिप्त- तिरस्करिणी असंहृतालक्ष्यप्रयोगा असि । अन्यैरलक्ष्या भवेयमित्युद्दिश्य प्रयुक्ता तिरस्करिणी तदाख्यः प्रयोगविशेषः यया सा एतादृश्शी त्वमसि-अत महाराजस्त्वां द्रष्टुं अक्षमः खलु, तेन च त्वामवधारयितुं न शक्त इति भावः । नेपथ्ये---

 इत इतः भट्टिणी-राज्ञी चन्द्रपूजनार्थं कृतपरिग्रहा तत्रैवायाति ।

 (सर्वे कर्णं ददति शृण्वन्ति । उर्वशी सह सख्या चित्रलेखया विषण्णा खिन्ना-इदानीमहं राजानं मिलितुं न शक्नोमि निर्जनत्वाभावात् इति हेतुः।)

 विदूषकः-अयि भो ! ( राजानं प्रति) उपस्थिता आयाता देवी । तत् इति हेतोः सुमुद्रितमुखो भव संवृतमुखः भव, मौनं भजस्वेति भावः । अतः परं मा वादीः इत्यर्थः । राज्ञी श्रोष्यति कुपिष्यति चेति हेतुः । अत्र पुनर्बी- जस्य हासः।

 ".. राजा-भवान् अपि संवृतो मुद्रितः आकारो मुखं यस्य तादृशो भव । xxxxxxस्स्वेति भावः ।