पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२४

पुटमेतत् सुपुष्टितम्
१२६
विक्रमोर्वशीये

( इति परिक्रामतः।)

 विदूषकः-भो, णं जाणामि सोत्थिवाअणं वि देदि । आदु भवंतं अंतरेण चंदवदव्ववदेसेण मुक्करोसा अज्ज मे अक्खीणं सुहदंसणा देवी । [भो! ननु जानामि स्वस्तिवाचनमपि ददाति । उत भवन्तमन्तरेण चन्द्रव्रतव्यपदेशेन मुक्तरोषा अद्य मेऽक्ष्णोः सुखदर्शना देवी।]

 राजा-( सन्मितम् ) उभयमपि घटते । तथापि भवता यत्पश्वादभिहितं तन्मां प्रतिभाति ।

 यदत्रभवती-

सितांशुका मङ्गलमात्रभूषणा पवित्रदूर्वाङ्कुरलाब्छितालका ।
ब्रतापदेशोज्झितगर्ववृत्तिना मयि प्रसन्ना वपुषैव लक्ष्यते ॥ १२ ॥


 "अभिषिक्ता तु राज्ञासौ देवीत्यन्या तु भोगिनी । भट्ठिनीत्यपरैरन्या नीचैगौस्वामिनीति सा" इति शब्दार्णवे । अनेन राज्ञः अभिषिक्तासु राज्ञीषु भट्टिनीति- पदं चेटीभिः प्रयोज्यम् ।

(इति परिक्रामतः-देवीचेट्यौ राजानमुपसर्पतः।)

 विदूषकः-राज्ञीं प्रसन्नां दृष्ट्वा किमस्येति कारणं विचारयन्नाह----

 ननु इति वितर्के । जानामि यत् सा किमपि स्वस्तिवाचनं उपहारः भक्ष्यं दास्यतीति उत अथवा भवन्तमन्तरेण भवन्तं उद्दिश्य चन्द्रव्रतस्य व्यपदेशेन मिषेण मुक्तो रोषः क्रोधो यया तादृशी सती अद्य मे अक्ष्णोः नयनयोः सुखं सुखकारकं दर्शनं यस्याः तादृशी देवी प्रतिभाति । भावस्तु-सा किञ्चित् भक्ष्यं दित्सुरिति हेतोः मम नयनयोः सा प्रीतिकरा अथवा भवद्विषयको यस्तस्याः क्रोधस्तं व्रतव्याजेन परित्यजन्ती अत एव सुखदर्शना प्रतिभातीति न जाने इति वितर्कः किन्तु अद्य सा प्रियदर्शनेति निश्चितम् ।

 खस्तिवाचनम् ब्राह्मणेभ्यो दीयमानं मोदकादि [-उपहारः स्वस्ति+वच्+ ल्युट् (अन)]

 राजा-(सस्मितम् ) तथा उभयमपि घटते । उभावपि ते वितर्कौ सङ्गच्छेते । तयोरन्यतर एव सम्भवेत् । किन्तु मह्यं तु इत्थं प्रतिभाति यत् भवता पश्चादनन्तरमभिहितं उकं तदेव कारणम् । तया व्रतव्याजेन मुक्करोषया भवितव्यमिति ते तर्कः मह्यं प्रसन्नतरः प्रतिभाति ।

 यतः अत्रभवती मान्या सा एतादृशी लक्ष्यते----

 सितांशुकेति-सितं धवलं अंशुकं उत्तरीयं यस्याः सा मङ्गलमेव मङ्गलमात्र हरिद्राकुङ्कुमादि, एव भूषणं अथवा मङ्गलसूत्राख्यं भूषणं यस्याः सा तथा च पवित्रं