पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२६

पुटमेतत् सुपुष्टितम्
१२८
विक्रमोर्वशीये

 चित्रलेखा-साहु असूहापरंमुहं मंतिदं । [साधु असू- यापराङ्मुखं मन्त्रितम् ।]

 देवी-अज्जउत्तं पुरोकदुअ को वि वदविसेसो मए संपादणीओ । ता मुहुत्तं उवरोधो सहीअदु । [आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः । तन्मुहूर्तं उपरोधः सह्यताम् ।]

 राजा-मा मैवम् । अनुग्रहः खलु नोपरोधः।

 विदूषकः-ईरिसो णं सोस्थिवाअणएहिं दे बहुसो उवरोधो होदु ।[ ईदृशो ननु स्वस्तिवाचनकैस्ते बहुशः उपरोधो भवतु ।]

 राजा-किंनामधेयमेतद्देव्या व्रतम् ? (देवी निपुणिकामवलोकयति ।)

 निपु०-भट्टा! पिअप्पसादणं णाम । [भर्तः ! प्रियप्रसादनं नाम ।]


 चित्रलेखा-त्वया साधु एवोचितमेव असूया स्पर्धा तस्याः पराङ्मुखं विपरीतं स्पर्धारहितं मन्त्रितं विचारितम् । असूया हि नाम गुणेषु दोषाविष्करणमिति सिद्धान्तकोमुदी । उर्वशी राशि अनुरक्ता । देवी च तस्य पत्नी । तेन सपत्नीभावेन साहजिकी एवासूया खलु, किन्तु तथापि असूयाविरहितं तयोक्तम् यत् सा रूपेणाहीना कथमपि शचीत इति । अनेन नायिकायाः दाक्षिण्यमुदारता च सूच्यते ।

 देवी-आर्यपुत्रं पुरस्कृय अग्रे निवेश्य मया कोऽपि कश्चन व्रतविशेषः सम्पादनीयः करणीयः । अतः मुहूर्त कश्चित्कालं उपरोधः तदर्थं मया कृतः प्रतिबन्धः रुथ्यताम् ।

 राजा-मा मा एवम् । उपरोधोऽयमिति मा मा उच्यताम् । अयं तावदनुग्रहः न तु उपरोधः प्रतिबन्धः इति । अनेन राज्ञः विनयित्वं दाक्षिण्यं च व्यक्तम् ।

 विदूषकः-विदूषकस्तु राज्ञी मह्यमपि किमपि उपहाररूपेण दास्यतीति मन्यमानः तां सादरं सानुनयं भणति "ईदृशः खलु उपरोधः यदि स्वस्तिवाचनकैः मोदकाद्युपहारैः सहितो भवेत् तदा तु बहुशोऽस्तु । विदूषकस्य मोदकप्रियत्वात् स सर्वः स्वार्थपरत्वमेवावलम्बते ।

 राजा-देव्या एतद्व्रतम् किंनामधेयमस्तीति पृच्छा । किं नु खलु एतद्व्रतस्य नाम?

(देवी उत्तरप्रदानाय निपुणिकामवलोकयति ।)

 निपु०-भर्तः ! प्रियप्रसादनं नाम । प्रियः प्रसाद्यते अनुनीयते अनेनेति प्रियप्रसादनम् । प्रपूर्वक-सद् धातोः ल्युट । यस्य व्रतस्य आचरणेन प्रियः सदैवानुकूलो भवेत् तादृशमिदं व्रतम् ।