राजा-(देवीं विलोक्य ) यद्येवम्-
अनेन कल्याणि ! मृणालकोमलं |
राजा-(देवीं विलोक्य) यदि व्रतमिदमेवमेतादृशं प्रियस्य प्रसादनार्थमाचरितं चेत्-
अनेनेति-हे कल्याणि मङ्गलानुभावे शोभने वा । अनेन उपर्युक्तेन व्रतेन व्रताचरणेन मृणालं कमलनालं तद्वत् कोमलं सुकुमारं तवेदं गात्रं अकारणम् कारणेन विनैव ग्लपयसि क्षीणं करोषि । कुतः- यः दासजनः उत्सुकः उत्कण्ठितो भूत्वा तव प्रसादमनुग्रहमाकाङ्क्षति वाञ्छति स एव त्वया किं किमर्थं प्रसाद्यते । यस्तवैवानुग्रहपरिशीलनेन जीवति सः पुरुषः त्वया किमर्थं प्रसाद्यते ? तवानुग्रहमाकाङ्क्ष्यमाणोऽयं दासजनस्वया प्रसादनार्हो नास्तीति भावः ।
सरलार्थस्तु-अयि मङ्गलमुखि! यो जनस्तव प्रसादमनिशं कामयते तस्य प्रसादने यत्नस्य कैमर्थ्यमेव । तेन च वृथैवायं तव परिश्रमः प्राप्तस्यैव लाभायानुष्ठितत्वात् । ततश्च व्रताचरणेन व्यर्थमेव सुकुमारां तवाङ्गयष्टिं खेदयसीति । यतः- "लभेत वा प्रार्थयिता न वा श्रियम् , श्रिया दुरापः कथमीप्सितो भवेत् ।" (शाकु. ३-१६) । यदि ते प्रसादमहमिच्छामि तदा सम्भवमिदं यदहं तन्न लभेयम् किन्तु त्वयेप्सितो दुरापः कथं भविष्यतीति भावः । अथवा यदुक्तं कुमारे-“न रत्नमन्विष्यति मृग्यते हि तत्" न ते प्रसादं कस्यापि लब्धुं यत्नः साम्प्रतम्, किन्तु जनास्ते प्रसादाय लालायन्ते इति ।
अनेन राज्ञस्तस्यां बहुमानः आनुकूल्यं च व्यज्यते । कल्याणि-अत्र बह्वादिभ्यश्च ङीप्-कल्याणमस्यै भवतीति । ग्लपयसि क्षयार्थस्य ग्लैधातोः णिजन्तस्य लटि प्रयोगः । न विद्यते कारणं यस्येति अकारणं नञ्बहुव्रीहिः क्रियाविशेषणं च । गात्रपदमत्र समग्रशरीरे न तु अवयवे यतः "गात्रं गजाग्रजxदिxयेप्यङ्गे कलेवरे" इति विश्वलोचनः।
अत्र च मृणालवत्कोमलमित्यत्र उपमालकारः । तेन च तस्याः अङ्गसौष्ठवं मार्दवं तेन व्रताचरणानौचित्यं व्यज्यते। तथा च पूर्वार्धं प्रति उत्तरार्धस्य हेतुत्वात् काव्यलिङ्गमलङ्कारः । व्रतचर्यायाः गात्रत्रासहेतुत्वात् अकारणत्वं च तस्याः उत्तरार्धगतवस्तुतश्च कार्यकारणभावः । अनयोश्च संसृष्टिः । तथा च अन्यासु संक्रान्तप्रेम्णां नायकानां कीदृशी व्यवहारपदवी स्वीयभार्यासु भवतीति कथनात् अन्यसंक्रान्तचेतसां स्वभाववर्णनात्, स्वभावोक्तिश्च ।
अत्र माधुर्याख्यः शब्दगुणः ॥ यदुक्तं “संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे