कञ्चुकी-(गृहीत्वा) स्वस्ति देव्यै ।
देवी-अज्जउत्त ! इदो दाव । [ आर्यपुत्र ! इतस्तावत् । ]
राजा-अयमस्मि ।
देवी-( राज्ञः पूजामभिनीय प्राञ्जलिः प्रणम्य च) एसा देवदामिहुणं रोहिणीमिअलंछणं सक्खीकरिअ अजउत्तं अणुप्पसादेमि । अज्जप्पहुदि अज्जउत्तो जं इत्थिअं कामेदि, जा अज्जउत्तसमागमप्पणइणी, ताए सह अप्पदिवंधेण वत्तिदव्वं । [एषा देवतामिथुनं रोहिणीमृगलाञ्छनं साक्षीकृत्यार्यपुत्रमनुप्रसादयामि । अद्यप्रभृति आर्यपुत्रो यां स्त्रियं कामयते, या आर्यपुत्रसमागमप्रणयिनी तया सहाप्रतिवन्धेन वर्तितव्यम् । ]
कञ्चुकी-(गृहीत्वा) स्वस्ति देव्यै । अत्र सेव्यसेवकभावात् कञ्चुकिना देवीपदग्रहणम् । विदूषकेण तु भवतीति पदं उचितमुपयुक्तं, यदुक्तम्-"परपत्नी तु या स्त्री स्यात् असम्बन्धात्तु योनितः । तां ब्रूयात् भवतीत्येवं सुभगे भगिनीति च" इति मनूक्तः भवतीतिपदप्रयोगः साधुः । तथा च राज्ञो मित्रं विदूषकः ।
देवी-आर्यपुत्र ! इतस्तावत् --आगत्य मां सम्भावयेत्यर्थः ।
राजा-अयमस्सि-आगतोऽस्मि-
देवी-(राज्ञः पूजां अभिनीय विधाय प्राञ्जलिः सती राजानं प्रणम्य) एषा अहं देवतास्वरूपं मिथुनं युगलं रोहिणी चन्द्रकान्ता च मृगलाञ्छनश्च चन्द्रस्तन्मयं मिथुनं साक्षीकृत्य साक्षिस्थाने कृत्वा आर्यपुत्रमनुप्रसादयामि मयि प्रसन्नं करोमि । अद्यप्रमृति आर्यपुत्रः यां स्त्रियं कामयते अभिलषति, या च आर्यपुत्रेण सह समागमसम्बन्धस्तस्मिन् प्रणयः प्रीतिरस्याः अस्तीति तया सह अप्रतिबन्धेन अविरुद्धतया मया वर्तितव्यमिति । सरलार्थस्तु-रोहिणीचन्द्रमिथुनं समक्षीकृत्य अहमिदं शपे यदद्यप्रभृति यस्यामार्यपुत्रः प्रेमानुबन्धी या चार्यपुत्रेण समागन्तुकामा (तया सह) असूयां परित्यज्याविरुद्धतया साम्येन वर्तिष्य इति । अत्र नायकस्य रहस्योद्भेदात् क्षिप्तिर्नाम गर्भसन्ध्यङ्गमुक्तं भवति विश्वनाथमतेन । परं च "गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः” इति वचनात् धनञ्जयमतेनाक्षेपो नाम सन्ध्यङ्गं प्रोक्तम् । अस्याङ्गस्य विशेषतः प्राधान्यमस्ति वस्तुपरिपोषायेत्यवधेयम् ।
साक्षीकृति "साक्षाद्द्रष्टरि संज्ञायामिति मतुबर्थे इनिः"।
अनेनातः परं नाहमार्यपुत्रस्य पराललनाभिलाषे परिपन्थिनी भविष्यामि इति संसूच्य औदार्यं नाम नारीभूषणं ख्यापितम् ।