पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३३

पुटमेतत् सुपुष्टितम्
१३५
तृतीयोऽङ्कः

यथानिर्दिष्टं सम्पादितं प्रियप्रसादनं व्रतम् । आगच्छत परिजनाः, गच्छामः ।]

 राजा-प्रिये ! न खलु प्रसादितोऽस्मि यदि सम्प्रति विहाय गम्यते ।

 देवी-अजउत्त! ण लंघिदपुव्वो संपदं णिअमो। ( इति सपरि- जना निष्क्रान्ता) [आर्यपुत्र! न लङ्घितपूर्वः साम्प्रतं नियमः।]

 उर्वशी-हला ! पिअकलत्तो राएसी । न उण हिअअंणिव- तेढुं सक्कणोमि । [ सखि ! प्रियकलत्रो राजर्षिः । न पुनर्हृदयं निवर्तयितुं शक्नोमि ।]

 चित्रलेखा-कधं त्थिरासो णिवत्तीअदि ! [कथं स्थिराशो निवर्त्यते !]

 राजा-(आसनमुपसृत्य) वयस्य ! न खलु दूरं गता देवी ।


 परिजनाः ! आगच्छत-किमस्माकं तेन, वयं तु गच्छामः । अनेन राश्या केवलं दाक्षिण्येनैव व्रतवर्या कृता, न तु परमार्थत इति सूच्यते ।

 राजा-प्रिये ! यदि वं सम्प्रति मामिहैवेदानी विहाय गच्छसि तर्हि अहं न प्रसादितोऽसि । अनेन राज्ञीकृतकोपायावसरो मा भूत् इति वाञ्छया केवलं राज्ञः चाटुकारिता, याथार्थे तु यदीयं शीघ्रमेवेतः अपसरेत्तदा साधु स्यादिति मनो- वृत्तिस्तु स्फुटा एव ।

 देवी-साम्प्रतमिदानी नियमो मे लड़ितपूर्वः पूर्वस्मिन् समये कदापि उच्छिन्नो नास्ति । अत्र चावस्थानेन मे व्रतभङ्गो भविष्यति प्रातिकूल्यात् । अतो नाहं शकात्र स्थातुमतः परमित्यर्थः । अत्र महिष्या वचनस्य संरब्धवात्तोटकं- नाम सन्ध्यङ्गम् यदुक्तं नाट्यशास्त्रे-"संरम्भवचनप्रायं तोटकम्"।

(इति परिजनैः सह निष्कान्ता प्रस्थिता।)

 उर्वशी-प्रियसखि ! राजर्षिरयं प्रियं कलत्रं यस्य सः प्रियदारः अस्ति । तथापि अहं तस्मात् मे हृदयं निवर्तयितुं परावर्तयितुं न शक्नोमि ।

 चित्रलेखा-स्थिराशः स्थिरप्रेमानुबन्धः कथं निवर्यते ? अशक्यो हि स्थिरप्रेमप्रसरस्य हृदयस्य इष्टाद्वस्तुनो निरोधः ।

 सामान्यवाक्यमिदम् । अत्र स्थिराश इति पदं तथाविधव्यक्तिसामान्यपरं, न तु पूर्ववाक्यस्थहृदयविशेषणम् इति पुंलिङ्गत्वेऽपि न च्युतसंस्कारत्वदोषापत्तिः।

 राजा-(आसनमुपसृत्य आगत्य) वयस्य माणवक ! नाहं चिन्तयामि यद्देवी दूरं गता । अनेन तयाश्राव्यं वस्तु विविदिषुरयं प्रतिभाति । नञर्थेनात्र प्रश्नः ।