पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३८

पुटमेतत् सुपुष्टितम्
१४०
विक्रमोर्वशीये

 चित्रलेखा-सुहं दे वअस्स![सुखं ते वयस्य !] |

 राजा-नन्वेतदुपपन्नम् ।

 उर्वशी-हला ! देवीए दिण्णो महाराओ । अदो से प्पणय- चदी विअ सरीरसंगदाम्हि । मा खु मं पुरोभाइणी त्ति समत्थेहि । [सखि ! देव्या दत्तो महाराजः । अतोऽस्य प्रणयवतीव शरीरं सङ्गताऽस्मि । मा खलु मां पुरोभागिनीति समर्थय ।]

 विदूषकः-कधं इह जेव तुम्हाणं अत्थमिदो सूरो! [कथमत्रैव युवयोरस्तमितः सूरः!]

 राजा-(उर्वशीं विलोक्य)


 चित्रलेखा-वयस्य ! ते सुखं भवतु इति शेषः ।

 राजा-एतत् सुखं हि नाम उपपन्नम् प्राप्तम् । इदानीं तव प्रियसखीसमागमसौभाग्येन सुखमहमधुना अनुभवामि ।

 उर्वशी-महाराजस्तु तत्रभवत्या देव्या मह्यं दत्तः । या कामिनी महाराजं कामयते तां सा अनुमन्यते इति कथनात् । अतः अस्मात् कारणात् अस्य महाराजस्य प्रणयवती सखी प्रीतिपात्रमिव शरीरसङ्गताऽस्मि । यदहं महाराजस्य पार्श्ववर्तिन्यस्मि तदन्याय्यं न, यतः स मह्यं देव्या दत्त अहं च तस्याः अनुमता। तेन च मां खलु पुरोभागिनी अनधिकारेण बलात् आक्रमणकर्त्री मावमंस्थाः । यत्स्थानं देव्याः अस्ति तन्मया बलात् गृहीतं स्वचापल्येन स्वातन्त्र्येन वेति मा समर्थय विचारयत अहं तस्याः प्रियसखी इदानीं संवृत्ता सपत्नीत्वात् । यत्तु “कुरु प्रियसखीवृत्तिं सपत्नीजने" इत्यैतादृशादर्शवत्यां नायिकायामौदार्यं नाम अलङ्कारः इह प्रदर्शितः यदुक्तं-"औदार्यं विनयः सदा"।

 यद्यपि कोषे “दोषैकदृक् पुरोभागी" इति हैमवचनात् पुरोभागिनीपदस्य दोषैकदर्शिनी इति अर्थोऽवगम्यते तथापि तत्तु अत्र न सङ्गच्छते । अतः पुरोभागिनीपदेन बलाद् अनधिकृतस्य वस्तुनः स्वातन्त्र्येण स्वेच्छानुसारं ग्रहणम् इति अर्थः क्रियते, यतःस्वयमेवं महाकविः शाकुन्तले पञ्चमाङ्के तदर्थ भङ्ग्या स्फुटं कृतवान् शार्ङ्गरवमुखेन-"आः पुरोभागिनि ! किमिदं खातन्त्र्यमवलम्बसे" इति । तत्रैव च तत्रभवन्तः टीकाकृतः जीवानन्दमहानुभावाः पुरोभागिनीति पदस्य अविमृश्यकारिणीति अर्थं प्रकाशयन्ते ।

 विदूषकः-माणवकस्तु कस्मात्कालात् ससखी इयमत्रास्त्रे इत्यजानन् चकितः सन् पृच्छति किम् युवयोरुर्वशीचित्रलेखयोः सूरः सूर्य अत्रैव अस्तं इतः गतः । किम् युवाम् सन्ध्यासमयादिहैव स्थः?

 राजा-(उर्वशीं पश्यन् )