पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२४०

पुटमेतत् सुपुष्टितम्
१४२
विक्रमोर्वशीये

नोत्कण्ठते तथा वयस्येन कर्तव्यम् ।]

 विदूषकः-भोदि ! किं वा सग्गे सुमिरिदव्वम् । ण तत्थ खाईअदि ण पीअदि । केवलं अणिमिसेहिं अच्छीहिं मीणदा अवलम्बीअदि । [भवति ! किं वा स्वर्गे स्मर्तव्यम् । न तत्र खाद्यते न पीयते । केवलमनिमेषैरक्षिभिर्मीनतावलम्ब्यते ।]

 राजा--- वयस्य !

  अनिर्देश्यसुखं स्वर्ग कथं विस्मारयिष्यते ।


 अतः इयं वर्गस्य नोत्कण्ठते वर्ग गन्तुं यथा न कामयते तथा वयस्येन कर्तव्यम् । तया सह भवतेत्थं व्यवहर्तव्यं यथा वर्गस्य स्मरणं न कुर्यात् ।

 अनेन भाविविरहं व्यञ्जयता कविना आगामिनः अङ्कस्य अर्थोपक्षेपात् अङ्कावतारोऽयम् उपन्यस्तः । यल्लक्षणं तु यदाह भरतः-"बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ" इति ।

 स्वर्गस्य नोत्कण्ठते इत्यत्र "अधिगर्थदयेशां कर्मणि" (२॥३॥५२) इत्यनेन पाणिनीयेन सूत्रेण कर्मणि षष्ठी । स्वर्ग न स्मरेदित्यर्थः । एवमेव भवभूतिरपि उत्तरचरिते "उत्कण्ठते च युष्मत्सन्निकर्षस्य" इति ।

 इयं हि चित्रलेखायाः प्रार्थना शाकुन्तले अनुसूयाया इवास्ति । अनुसूया- "तद्यथा इयं नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा करिष्यति"। (Shak.-Act. III P. 176)

 विदूषकः-भवति चित्रलेखे ! किं वा खर्गे स्मर्तव्यम् । स्वर्गे को नामैतादृशः पदार्थो विद्यते यत्कृते खर्गस्तु स्मरणीयः स्यात् । न तत्र खाद्यते न वा पीयते । इदं तु प्रसिद्धम् एव यद्देवा न तु खादन्ति न वा पिबन्ति । यतः "देवा हि यज्ञेषु दत्तैर्ह विर्भागैरेव तुष्यन्ति न किमप्यन्यददन्ति पिबन्ति वा"। तैः स्वर्गस्थैस्तु केवलं अनिमेषैः निर्निमेषैः अक्षिभिः लोचनैर्मीनता मीनसदृशत्वं अवलम्ब्यते स्वक्रियते । यथा मत्स्याः निमेषहीननेत्राः भवन्ति तथैव स्वर्गिण इति प्रसिद्धिः । “सुरमत्स्यावनिमिषौ” इति अमरसिंहः ।

 किं वा स्वर्गे स्मर्तव्यमित्यनेन इदमपि ध्वन्यते यत् राज्ञः अत्र सत्त्वे तस्या अत्रैव सर्वखस्य सद्भावात् किं नु खलु तदतिरिक्तं भवेत् यत्तु स्वर्गे स्मर्तव्यम् स्थात् इति।

 राजा-वयस्य चित्रलेखे!

 अनिर्देश्यमिति-अनिर्देश्यं अनिर्वाच्यं वाचामगोचरं वा सुखं विद्यते यस्मिन् तादृशः अलौकिकसुखसम्पत्तिकः स्वर्गः कथं विस्मारयिष्यते केनापि पुरूषेण तदधिकसौख्यप्रदानेन विस्मृतिविषयतां नेतुं शक्यते । न कदापीति भावः । किन्तु इदन्त्वहं कथयितुं प्रभवामि यत्----