अनन्यनारीसामान्यः दासस्त्वस्याः पुरूरवाः ॥ १८ ॥
चित्रलेखा-अणुग्गहीदम्हि । हला उव्वसि! अकादरा भविअ विसज्जेहि मं । [अनुगृहीतास्मि । सखि उर्वशि! अकातरा भूत्वा विसर्जय माम् । ]
उर्वशी-(चित्रलेखां परिष्वज्य सकरुणम् ) सहि ! मा खु मं विसुमरेसि । [ सखि ! मा खलु मां विस्मरिष्यसि ।]
चित्रलेखा-(सस्मितम् ) वअस्सेण संगदा तुमं मए एव्वं जाचिदव्वा । [वयस्येन संगता त्वं मयैव याचितव्या ।]
(इति राजानं प्रगम्य निक्रान्ता।)
अनन्यनारीसामान्यः अनन्यनारीसाधारणः पुरूरवाः अस्या दासः। अन्या नारी अन्यनारी तस्यै सामान्यः लब्धं योग्यः अन्यनारीसामान्यः तन्न भवतीति अनन्यनारीसामान्यः केवलं तस्यामेव प्रणयी नान्यां स्त्रियं कामयमान इत्यर्थः ।
दासः-दासृ दाने (भ्वा. उ. से.) यः यत्सेवायै आत्मानं ददातीति दासः घञ् । (३।३।१८) अनेन स्वनिरपेक्षतापूर्वकं तदाल्हादने आत्मनः सुतरां समर्पणं ध्वनयति ।
पुरूरवाः इति अन्यपुरुषप्रदानेन पुरूरवसः माहात्म्यं प्रध्यापयता कविना तस्य च तस्या दासवाङ्गीकारेण सुखसम्पत्तिरनुरूपैवेति गमयति । अत्र च पुरुरवा इति प्रदानेन ईषदवलेपो व्यज्यते । किन्तु तस्या दासत्वस्वीकरणेन दक्षिणत्वं च व्यक्तं भवति।
अहमस्या दासोऽस्मीति कथनापेक्षया पुरूरवाः इत्यन्यपुरुषद्वारा तदेवार्थस्य ज्ञापनात् अप्रस्तुतप्रशंसालङ्कारः । अनुष्टुब् वृत्तम् ।
चित्रलेखा-अनुगृहीतास्सि-इदमेवाहं कामये-तस्यार्थस्य च लाभेन अनुकम्पितास्मि भृशं भवता इत्यर्थः । हला उर्वशी! अकातरा भूत्वा मां विसर्जय गन्तुमनुज्ञापय । अकातरा इत्यत्र सत्पुरुषहस्तक्षिप्तत्वात् । यदाह कण्वः शाकुन्तले- "सुशिष्यपरिदत्तव विद्या अशोचनीयाति संवृत्ता (Act. IV P. १८७) अकातरा अधीरा इति ।
{{bold|उर्वशी-(चित्रलेखां परिष्वज्य आलिङ्गय सकरुणम् सखी विरहकातरा सती) मा खलु मां विस्मरिष्यसि । यद्यप्यहं इहामि तथापि मां विस्मृतिपथं भावतारयेति प्रार्थयते । अनेन अस्याः चित्रलेखायां विशेषा प्रीतिः सूच्यते ।
{{bold|चित्रलेखा-(सस्मितं सोपहासम् ) वयस्येन महाराजेन सङ्गता सम्मिलिता त्वंं मया एवं याचितव्या प्रार्थयितव्या । महाराजप्रीतेस्त्वमधुना मां मा विस्मरिष्यसीति प्रार्थनीयाऽसि संवृत्ता।
(इति अम्बा राजानं प्रणम्य निष्क्रान्ता प्रस्थिता।)