पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२४२

पुटमेतत् सुपुष्टितम्
१४४
विक्रमोर्वशीये

 विदूषकः-दिविआ मणोरसिद्धीए वट्टदि भवम् । [ दिष्ट्या मनोरथसिद्ध्या वर्धते भवान् । ]

 राजा-इमां तावन्मनोरथसिद्धिं पश्य ।

सामन्तमौलिमणिरक्षितपादपीठ-
 मेकातपत्रमवनेन तथा प्रभुत्वम् ।
अस्याः सखे ! चरणयोरहमद्य कान्तं
 आज्ञाकरत्वमधिगम्य यथा कृतार्थः ॥ १९॥

 उर्वशी-णस्थि मे वाआविहवो अदो अवरं मंतिदुम् । [नास्ति मे वाग्विभवो अतः अपरं मन्त्रयितुम् । ]


 विदूषकः-(राजानं प्रति ) दिष्ट्या सुभाग्यमिदं यत् मनोरथस्य सिध्या भवान् वर्धते ।स्वा भीप्सितवस्तुलाभेन भवतः सौभाग्यमिदं समुपपन्नमिति भावः ।

 राजा-इमां तावत् मम मनोरथसिद्धिं पश्य कीदृशी मनोरथसिद्धिरिति उच्यते सामन्तेति-

 हे सखे ! सामन्तानां वशंवदानां प्रत्यन्तर्वर्तिभूपतीनां मौलयः मुकुटाः तेषु जटिताः मणयस्तै रञ्जितं शोभितं पादपीठं यस्मिन् तत् , तथा च एकातपत्रं निःसपत्नं अवनेः पृथिव्या प्रभुत्वं राज्यं अधिगम्य प्राप्य, तथा कृतार्थः कृतकृत्यः सुखी वा नाहं जातो, यथा अस्याः सुन्दरीललामभूतायाः उर्वश्याः चरणयोः कान्तं मनोरञ्जकं आज्ञाकरत्वं दास्यं अधिगम्य लब्ध्वा अहं कृतार्थः संवृत्तः।

 यथा अस्याः दास्येन सौख्यमहमद्य लब्धवान् तथाऽहं निस्सपन्नस्यापि राज्यस्य प्रभुत्वेन नाप्तवानस्मि । राज्यादपि अस्या लाभः अधिकं सुखकरः इति व्यज्यते। अनेन तद्विषयिका विलक्षणा रतिर्बोध्यते ।

 अत्र च राज्यसौख्यात् उर्वशीलाभजनितसुखस्याधिक्यवर्णनात् व्यतिरेकालङ्ग्कारः । यदाह- "उपमानाद् यदन्यस्य व्यतिरेकः स एव सः" ( काव्यप्रकाशे)। अत्र राज्ञः वर्णनस्य प्रकृतत्वात् अस्या लाभस्य प्रभुत्वस्य चोभययोरपि प्रस्तुतत्वम् तयोश्च अधिगम्येति एकक्रियाभिसम्बन्धात् तुल्ययोगितालङ्कारः । यदुक्तं "वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता" । अत्र चार्थव्यक्तिर्नाम गुणः “झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः" । उत्तरार्धे तु माधुर्यमपि । अत्र उदाहरणं नाम गर्भसन्ध्यङ्गम्-"उदाहरणमुत्कर्षयुक्तं वचनमुच्यते” इति विश्वनाथः ।

 अत्र वसन्ततिलका वृत्तम् । उक्ता वसन्ततिलका तभजा जगौ गः ॥ १९ ॥

 उर्वशी-राज्ञो वचनमाधुर्येण विजिता वक्ति वाचां विभवः सामर्थ्यं 'वाग्विभवः । अतः परं सविनयं माधुर्येण च मत्रयितुं वक्तुं मे वाग्विभवः वाग्शक्तिर्नास्ति। यन्महाराजेनोक्तं तत् सुमधुरभाषणस्य परां काष्ठामधिरूढमेव ।