राजा-
अनधिगतमनोरथस्य पूर्वं |
(इति निष्क्रान्ताः सर्वे ।)
तृतीयोऽङ्कः।
राजा-अनधिगतेति-अयि सुभ्रु सुष्टु भ्रुवौ यस्य: सा तादृशी अनधिगतोऽलब्धो मनोरथः त्वदवाप्तिरूपाभिलाषो यस्य सः तस्य मम त्रियामा रात्रिः शतगुणितेव गता । एका रात्रिः दुःखितत्वात् मया शतरात्रिसमा यापिता ।सैव रात्रिः यदि तवाधुना समागमे तथैव शतरात्रिपर्यन्तं प्रसरति विस्तृता भवेत्तदा अहं कृती कृतार्थः भवेयं स्याम् । या रात्रिः पूर्वं अनेकरात्रिविस्तृता मयि प्रतिभाति स्म सैवेदानीं सुखसमयेऽपि तादृशी एव विस्तृता स्यात्तदा कृती सुखी च भवेयम् । अत्र सुभ्रुपदप्रदानेन भ्रुकुटौ कामचापलकल्पनायाः सद्भावात् त्वद्विरहे समधिकत्रासत्वापत्तिप्रदर्शनम् तेन च शतरात्रिसमा एका रात्रिरिति बोधने सौकर्यमेव । अत्र प्रार्थनयानया राज्ञो मनसि उत्कण्ठादर्शनात् सूचनोत्तराङ्ककथोपयोगित्वाच्च बिन्दुरित्यवगन्तव्यम्-यदुक्तं “अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्"। अत्र प्रार्थना नाम गर्भसन्ध्यङ्गमुक्तं भवति-यदुच्यते-“रतिहोत्सवानां तु प्रार्थनं प्रार्थना भवेदिति"।
अत्र पुष्पिताग्रा वृत्तम् "पुष्पिताग्रा नौर्यौ नञौ ज्रौग् " यस्य प्रथमे पादे नकारौ रेफयकारौ, द्वितीये च नकारञकारौ जकाररेफौ गकारश्च तद्वृत्तं पुष्पिताग्रा नाम । अर्धसममिदं वृत्तम् ॥ २२ ॥
(इति निष्कान्ताः सर्वे ।)
॥ इति तृतीयोऽङ्कः ॥
इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनकुतूहलस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजः प्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजस्रप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदारविन्दद्वन्द्वानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानामाचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्याणाम् तनूभवेन सहृदयताजलधिकौस्तुभेन एम्. ए. काव्यतीर्थ साहित्यविशारदाद्यनेकोपाधिसमल्लसितेन सुरेन्द्रनाथशास्त्रिणा विरचितायां विक्रमोवंशीसञ्जीविकायाम् कल्पलतासमाख्यायाम् व्याख्यायाम् तृतीयाङ्कविकासः॥