पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२४९

पुटमेतत् सुपुष्टितम्
१५१
चतुर्थीऽङ्कः

को नवो वृत्तान्तो वर्तते इति प्रणिधानस्थितया मयात्याहितमुपलब्धम्।

 सहजन्या-सहि : कीरिसं तं? [ सखि ! कीदृशं तत्  ? ]

 चित्रलेखा-(सकरुणम् ) उव्वसी किल लच्छीसणाहं अमच्चेसु णिहिदकज्जधुरं राएसिं गेण्हिअ केलाससिहरुद्देसं गन्धमादणवणं विहरिदुं गदा। [उर्वशी किल लक्ष्मीसनाथं अमात्येषु निहितकार्यधुरं राजर्षिं गृहीत्वा कैलासशिखरोद्देशं गन्धमादनवनं विहर्तुं गता।]

 सहजन्या-(सश्लाघम् ) सहि ! स संभोओ जो तारिसेसु प्पदेसेम् । तदो तदो। [ सखि । स सम्भोगो यस्तादृशेषु प्रदेशेषु । ततस्ततः।]

 चित्रलेखा-तदो तहिं मंदाइणीतीरे सिकदापव्वतेहिं कीलमाणा उदअवती णाम विजाहरदारिआ तेण राएसिणा चिरं णिज्झाइदेत्ति इदेति कदुअ कुविदा मे पियसही उव्वसी । [ततस्तत्र मन्दाकिनीतीरे सिकतापर्वतैः क्रीडमानोदयवती नाम विद्याधरदारिका तेन


 स्वप्रियेण सह विद्यमाना उर्वशी कथं वर्तते, को वा नूतनः समाचार इति विचारयन्त्या मयानिष्टं श्रुतम् ।

 सहजन्या-कीदृशं तत् अत्याहितमिति ।

 चित्रलेखा-(सकरुणम्-चिन्ताग्रस्ता इव सविषादमाह) उर्वशी किल लक्ष्म्या सनाथं समेतं अमात्येषु स्वकार्यपट्टसचिवेषु निहिता स्थापिता कार्यधूः कार्यभारः येन तादृशं राजर्षि पुरूरवसं गृहीत्वा कैलासशिखरे उद्देशः स्थितिः यस्य तादृक् तं गन्धमादनाख्यं वनं विहर्तुं गता । प्रियेण सहोपवनविहारविहृतमनस्कोर्वशी कैलासशिखरं गतेति भावः ।

 गच्छतेर्योगे शिखरोद्देशमिति द्वितीया ।

 सहजन्या-(सश्लाघ्यम् साधु साधु इति प्रशंसनपूर्वकम् ) सखि ! यः तादृशेषु नितान्तसुखधामसु प्रदेशेषु स्थलेषु संभोगः स एव संभोगः खलु नान्यः ।

 अनेन तत्स्थानमाहात्म्यं प्रकाशयता कविना राज्ञः विलासिलं, उर्वश्याः संभोगभाग्यभाक्त्वं विवेचकत्वं चोभयोः विहरणक्षमत्वं तस्य प्रदेशस्य निर्जनत्वादिति ध्वनितम् । ततस्ततः अनन्तरं किमभूदिति प्रश्नः।

 चित्रलेखा -ततः तत्रोपवने मन्दाकिन्याः गङ्गायास्तीरे सिकतानिर्मितैः क्रीडनकभूतैः पर्वतैः क्रीडमाना उदयवती नाम्नी विद्याधरस्य कस्यचन दारिका कुमारिका तेन राजर्षिणा चिरं निध्याता इति कृत्वा अनेन कारणेन मे प्रियसखी उर्वशी तस्मै कुपिता क्रुद्धा।