पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५३

पुटमेतत् सुपुष्टितम्
१५५
चतुर्थोऽङ्कः

(अनन्तरे खण्डधारा)

चिन्तादुम्मिअमाणिसिआ सहअर्गदसगलालसिआ।
विअसिअकमलमनोहरग विहइ हंसी सरवरए ॥ ४ ॥
[चिन्तादूनमानसा सहचरीदर्शनलालसा ।
विकसितकमलमनोहरे विहरति हंसी सरोवरे ॥४॥]

(इति निष्क्रान्ते)

प्रवेशक:-

(नेपथ्ये पुरीरवसः प्रावशिक्याक्षिप्तिका)

गहणं गइन्दणाहो पिअबिरहुन्नाअपअलिअविआरो।
विन्नई तरुकुसुमकिसलअभूसिअगिअदेहपब्भारो ॥ ५ ॥
[गहनं गजेन्द्रनाथः प्रियाविरहोन्मादप्रकटितविकारः।
विशति तरुकुसुमकिसलयभूषितदेहप्रारभारः॥५॥]


 अनन्तरे खण्डधारा तदाख्यागीतिः-

 यल्लक्षणं तु-यद्गीतं गुणकर्या च रागेण क्रीडकेन च, तालेन सा खण्डधारा यष्टिकेन प्रकाशिता ॥ इति ।

 चिन्तेति-हंसीमिषेण स्वावस्थां वर्णयति-

 चिन्तया सखीगतचिन्तया दूनं खिन्नं मानसं यस्याः साः खिन्नमना सहचर्याः दर्शने लालसा कौतुकं यस्याः सा हंसी विकसितानि कमलानि तेभ्यो मनोहरे चित्ताकर्षके सरोवरे विहरति ।

 अत्र कुतूहलम् "रम्यवस्तुसमालोके लोलता स्यात् कुतूहलम् ।"

 तथा च कुमाराख्यवने विकतितान्यभवन् बहूनि कमलानि तेन च चित्ताकर्षकत्वं उद्दीपनत्वं वियोगिनः राज्ञः भृशतापकारित्वं प्रदर्शितम् । इयमपि गाथा ॥४॥

( इति निष्कान्ते सहजन्याचित्रलेखे)

 प्रवेशकः-अर्थोपक्षेपकोऽयम् , तल्लक्षणं तु "प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा"।

 अर्थोपक्षेपकोऽयं प्रथमाङ्के निषिद्धः । प्राकृतवादिभिः पात्रैः प्रयोज्यः। शेषं सर्वं विष्कम्भकसदृशमेव ।

 (नेपथ्ये पुरूरवसो राज्ञः विक्रमस्य प्रावेशिकी प्रवेशं सूचयन्ती आक्षिप्तिका गीतिः)

 लक्षणं तु यथापूर्वमेव ।

 गहनमिति-अन्योक्त्या विरहिणो राज्ञः अवस्थां वर्णयति-प्रियसख्याः विरहो वियोगः तेन जन्यः य उन्मादो भ्रमः विस्मृतस्वत्वं वा तस्य प्रकटितः -