(ततः प्रविशत्याकाशबद्धलक्ष्यः सोन्मादो राजा)
राजा-(सक्रोधम् । ) आः दुरात्मन् रक्षः! तिष्ठ तिष्ठ ।क्व मे प्रियतमामादाय गच्छसि । ( विलोक्य ) हन्त ! शैलशिखराद्गगनमुत्पत्य बाणैर्मामभिवर्षति । (लोष्टं गृहीत्वा हन्तुं धावन् । अनन्तरे द्विपदिकया दिशोऽत्रलोक्य)
हिअआहिअपिअदुक्खओ सरवरए धुदपक्खओ। |
स्पष्टतयानुभाव्यमानः विकारः यस्मिंस्तादृशः तथा च तरूणां कुसुमानि किसलयानि पत्राणि च तैः भूषितः निजदेहस्य प्राग्भारः आभोगः यस्य सः गजेन्द्राणां नाथः गहनं विपिनं विशति ।
तात्पर्यं तु गजेन्द्रपक्षे-प्रियाविरहोन्मत्तः तेन च उत्पाटितैः तरुकुसुमकिसलयैः भूषितनिजदेहभागः गजेन्द्रो विपिनं विशति ।
अन्योक्त्या राज्ञः पक्षे-उर्वशीविरहोन्मत्तत्वात् विरहोष्मणा भृशं तप्यमानः शीतलः मृदुकुसुमकिसलयैः शिशिरोपचारैः नितान्तमुपचर्यमाणः गहनं उपवनं विशति ।
अत्र-गजेन्द्रपदप्रदानेन राज्ञः गजसदृशत्वं व्यज्यते महामहिमशालित्वं च प्रतीयते । अत्र च उन्मादाख्या अष्टमी स्मरदशा दर्शिता । द्वितीयविशेषणेन च तापस्योत्कटत्वं सूचितम् । गहनपदेन च गहनशोकगहनं विशतीति ध्वन्यते । गजेन्द्रान्योक्त्या च प्रियोर्वशीवियोगासितस्य पुरूरवसः अवस्थानिरूपणेन प्रेम्णः विलक्षणत्वं प्रकटितम् । इयं गाथा ॥५॥
(ततः प्रविशति आकाशे बद्धलक्ष्यः दत्तदृष्टिः सोन्मादो राजा ।)
राजा-(सक्रोधम् ) -इह भ्रान्तो राजा नवजलधरं राक्षसं मन्यमानः आः रक्षः! इति सम्बोधयन् उर्वशीपरिहारिणमिव तं पूर्वस्मृतं केशिनमिव तर्जयति ।
आः इति कोपे। दुरात्मन् रक्षः! तिष्ठ तिष्ठ । क्व कुत्र मे प्रियतमामुर्वशीमादाय गृहीत्वा गच्छसि ? हे राक्षसापसद ! मे प्रियां गृहीत्वा कुत्रं प्रस्थितोऽसि तिष्ठ तिष्ठे भर्त्सयति । अत्र द्विरुतिस्तु भर्त्सनायाम् ।
(विलोक्य) सपद्येव राजनि विलोकयति मेघाजलधाराः न्यपतन् ताः दृष्ट्वा राजा मेघं राक्षसं मत्वा भ्रान्तः जलधाराः बाणान् ज्ञात्वा विस्मितः कथयति- हन्त ! इति आश्चर्ये । मत्कृतभर्त्सनामविगणय्य मां प्रतियोद्धकामो राक्षसोऽयं बाणवर्षा करोतीति विस्मयः । शैलशिखरात् गगनमाकाशं उत्पत्य उड्डीय उत्प्लुत्य वा बाणैः शरैः मां अभिवर्षति अभिहन्यमानं समाच्छादयति ।
(लोष्टं लगुडं गृहीत्वा हन्तुं धावन्, अनन्तरे पश्चाद्विपदिकाख्यया पूर्वोक्तलक्षणया गीत्या दिशः अवलोक्य) आह-इति शेषः।