पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५९

पुटमेतत् सुपुष्टितम्
१६१
चतुर्थोऽङ्कः।

मिनीसनाथस्य मेषोदयस्योपन्यासः बाणाभिवर्षं घटयितुं धारासम्पातः, धारासु इषुसम्पातस्य विवर्तनार्थं सुरधनषो ग्रहणम् । अतो विद्युद्युतो मेघोदयः, जलाभिवर्षः, सुरधनुषो गगने दर्शनं चैतेषां समेषां एककालवच्छेदेन वैज्ञानिकनयविरोधि अनकृतमेव समवायकल्पनम् ।

 वस्तुतः सूक्ष्मतया विभावितं चेत् कवेरयं अक्षम्यो दोषः, कल्पनायाः चारुत्वेऽपि निराधारत्वाद्यथा-निराक्रियमाणानि क्रान्तिकारणानि एकसमयावच्छेदेन विद्यमानत्वेन न दृष्टचराणि । विद्युत्सहितस्य नवजलधरस्य 'निशाचरेणोर्वशी अपह्रियमाणा वर्तते" इत्याकारकभ्रान्तेः कारणत्वं युज्यते किन्तु इन्द्रधनुषः पटोर्धारासारस्य च समकालीनताभावात् तयोः दर्शनेन धनुर्बाणपरम्पराभ्रान्तिरिति कल्पना त्वसङ्गतैव ।तडिन्मेघयोः विक्रमस्य मनसि उर्वशीहरणभ्रान्त्युत्पादकने पर्याप्तकारणत्वे सति किमिदं निरङ्कुशत्वं कवेः असत्कारणात्कार्योत्पत्तिदर्शने ? यद्यपीन्द्रधनुषः सखे मन्दाः अम्बुकणाः कचिदृश्यन्ते इत्यभ्युपेत्यापि वयं ब्रूमः मेघसुरधनुर्दृष्टिविद्युतां एकस्मिन्नेव समये दर्शनमप्राकृतमेव । गद्यं वा पद्यं वा सत्यावलम्बि चेत्तदैव हृद्यं अन्यथा तु वद्यमेवेति सहृदयवन्द्यो नियमः । अथ नियतिकृतनियमरहितामित्यादि काव्यव्याख्याबलेन कवेः शरणं कल्प्यते चेत् अत्र विचार्यते किमिदं नाम नियतिकृतिनियमराहित्यम् ? किमिदं नियतिकृतिनियमराहित्यं कवेः स्वच्छन्दोच्छलत्कल्पनारूपत्वं उत अनैसर्गिकक्रियावस्तुभावतत्समवायादिकल्पनारूपत्वं वा आद्यश्चेत् कस्यचिदपि कस्या अपि कल्पनायाः सम्भवादुच्छृङ्खलत्वाच्च समस्तकाव्यशास्त्रस्याकुलीभावप्रसङ्गः । अपरश्चेत् काव्यस्योपदेशयुक्त्वात् सौकर्येण ज्ञानावाप्तिबीजकलात् काव्यनिर्माणस्य चरमहेतुकैमर्थ्यप्रसङ्गः तदध्ययनस्य निष्प्रयोजनत्वापत्तिश्च । अतः नियतिकृतनियमराहित्येन कविचक्रवर्तिभिरुपादानकर्मादिसहकारिकारणापरतन्त्र्यत्वमङ्गीकृत्य सामान्यस्यापि वस्तुनः निजप्रतिभया चमत्कारशालितयोपस्थापनबलेन सहृदयानामाल्हादकत्वं नाम नियतिकृतनियमराहित्यमभिप्रेतं प्रेक्षावतां इति कविहृदयं गमितम् । तच्च सतां वस्तूनां समवायाश्रयीभूतमेव सर्वदा, न तु असतां वस्तूनां अप्राकृतत्वालम्बितमिति स्फुटमेव, यथा व्याचक्षितं श्रीमदानन्दवर्धनैरालोके "सरस्वती स्वादु तदर्थवस्तु निष्यन्दमाना महतां कवीनाम् । अलोकसामान्यमभिव्यनक्ति प्रतिस्फुरन्तं प्रतिभाविशेषम्" यश्च प्रतिपादितं भट्टतौतेन "नायकस कवेः श्रोतुः समानोऽनुभवस्ततः" परं च "अर्थशब्देन वस्तुशब्दं वस्तुशब्देन तत्त्वशब्दं च वक्तुं वस्तुशब्दं व्याचष्ट" इति अभिनवगुप्तपादैर्लोचनकारैः अभिमतत्वाद् वस्तुतत्वं निष्यन्दमाना महतां कवीनां सरस्वती लोकसामान्यं प्रतिभाविशेषं परिस्फुरन्तमभिव्यनक्तीति विश्वजनीनत्वात् कविसम्प्रदायस्य अत्र प्रकृते तादृशमपि नियतिविकृतिनियमराहित्यरूपं निर्बलमपि शरणं कवेर्नानुषज्यत एव । अयं च दोषः सुरधनु:कल्पनायासव्यतिरेकेण समाधातुं शक्यः, तस्या हानान्नाटकीयवस्तुसमारोहस्य कथमप्यहानात् । दोषविशेषे सत्यपीह कालिमसत्वेऽपि मणे: