पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२६३

पुटमेतत् सुपुष्टितम्
१६५
चनुर्थोऽङ्कः


 (संज्ञा लब्ध्वा दिशोऽवलोक्य द्विपदिकया सास्रम् ) अये! परावृत्तभागधेयानां दुःखं दुःखानुबन्धि । कुतः-

अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥१०॥


उर्वश्याः इदम्पदेन निर्देशः कृतः, “इदमस्तु सन्निकृष्टं" इति वचनात् इदम्पदस्य सन्निकृष्टार्थबोधकत्वादिहाभवन्मतसम्बन्धाख्यो दोषः स्फुट एव । नायिकायाः हृदयसन्निहितत्वग्रहणेन दोषः परिह्रियेत चेत्तर्हि स्वर्गयोत्पतितेति वितर्कस्य प्रातिकूल्यात् अङ्गिनो विप्रलम्भरसस्यापकर्षकत्वाद्विशेषेण दोषावहत्वं भवेत् ।

 अत्र "झगिति प्रतीयमानार्थान्व्यकत्वमर्थव्यक्ति वचनाद् इह अर्थव्यक्तिर्गुणः।

 अत्र संशयाख्यं नाट्यलक्षणम् "संशयेऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः ॥ इति ।

 अत्र च शार्दूलविक्रीडितं वृत्तम् । लक्षणं पूर्वमेवोक्तम् ॥ ९ ॥

 इत्युक्त्वा दिशः द्विपदिकया विलोक्य उर्वशीमदृष्ट्वा सास्रम् सवाष्पं आह ।

 अये ! परावृत्तभागधेयानां प्रतिकूलप्रारब्धानां पुरुषाणां दुःखं दुःखानुबन्धि दुःखं अनुबध्नातीति तादृशशीलवदेव भवति आपदां पदं अनुबध्नाति । आपत् आपद्भिः सहाक्रमति पराङ्मुखविधीन् जनान् इति भावः । अनावमाननख्यापनात् छलनं नाम सन्ध्यङ्गमुक्तं भवति । कुतः-अत्र हेतुनाह-

 अयमिति -तया विलक्षणप्रीतिसदनभूतया प्रियया सुदुःसहः नितरां सोढुमशक्यः वियोगः मे मह्यमुपनतः । एकपदे च तदैव तस्मिन्नेव समये नवा ये वारिधरा मेघा तेषामुदयात् अहोभिः दिवसः निरातपत्वेन उष्णताराहित्येन शीतलत्वेन वा रम्यैः रन्तुं योग्यैः भवितव्यम् ।

 प्रथमा तावदापदियमेव यदहं प्रियया विरहितः पुनश्च तस्मिन्नेव काले गण्डस्योपरि स्फोट इव मेघोदयात् शीतलानि अत एव रमणीयानि दिनानि भविष्यन्ति । एतन्महद्दुःखम् इति ।

 अत्र निरातपत्वरम्यैः इत्यनेन उद्दीपनविभावो व्यक्तः, राज्ञश्च अधीरता विरहजन्याऽभिव्यज्यते।

 अत्र कान्तिर्नाम गुण:--"अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्वल्यं कान्तिः" ।

 एकपदे सद्यः “तत्समैकपदे तुल्ये सद्यः सपदि च स्मृतम्" इति हलायुधः।

 अपि चात्र सुरुचिरवृत्तिमनुरुध्य समासानां विरलतया विनियोजने चकारस्य निपातस्यालक्ष्यक्रमव्यङ्ग्यस्य विप्रलम्भस्याभिव्यञ्जकत्वं यदुक्तं सहृदयचक्रवर्तिभि "कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित्" इति । एवं चात्र द्वयोः परस्परं सुदुःसहत्वोद्दीपनसामर्थ्यसमेतयोः वल्लभाविरहवर्षाकालयोः एककालावच्छेदेन