गन्धुम्माइनअमहुअरगीएहिं |
[गन्धोन्मादितमधुकरगीतै- |
कालस्य कारणम् " राजा यथा यथा कालं चलयितुमिच्छति तथैव स प्रवर्तते । कालनियन्त्रणे वा राज्ञः शक्तिरस्ति । तद् राजाऽप्यहं कि केन हेतुना जलधरस्य समयं कालं न प्रत्यादिशामि निराकरोमि अपि तु अवश्यं करिष्ये इति आकूतम् । राज्ञः समयनियन्त्रणे शक्तिमत्त्वात् जलधरस्य साम्प्रतं उद्दीपकत्वेन दुःखदत्त्वात् कथमहं तं न निराकरोमि इत्यर्थः ।
(अनन्तरे चर्चरी)
गन्धेति-कल्पतरोः नृत्यव्यापारं वर्णयन् तस्योद्दीपकतां विभावयति- कल्पतरुर्नृत्यति-किन्तु नृत्ये गीतवाद्याभिनयादीनामपेक्षा वर्तते । तत्सर्वमुत्प्रेक्षते-
कल्पतरोः गन्धेन सौरभेण उन्मादिताः मत्ताः मधुकराः द्विरेफाः तेषां कल: गीतैः गुञ्जितैरुपलक्षितः तथा च वाद्यमानैः परभृतां कोकिलानां रवैः एव तूर्यैः तदाख्यवाद्यविशेषैरुपलक्षितः प्रसृतो वहमानः पवनो वायुः तेन उद्वेल्लितानि चञ्चलानि च तानि पल्लवानि तेषां निकरः समूहो यस्य तादृशः कल्पद्रुमः सुष्टु ललितैः सुभगैः प्रकारैः नृत्यति ।
नर्तकः कल्पतरुः । भ्रमरगुञ्जनमेव गीतम् । कोकिलानां रवो वाद्यम् । वायुना दोलायमानानि पल्लवानि एव अभिनयार्थं हस्तः। एभिः सर्वैः उपकरणैः संयुतः कल्पद्रुमो नृत्यति।
अत्र कल्पद्रुमस्रुतगन्धस्योन्मादकत्वेन, मधुकराणां कलगुञ्जनेन, पिकानां रवेण, वायुना कम्पितेः पल्लवैः द्योतितेन शीतलमन्दसुगन्धिना पवनेन राज्ञः कामवृत्तेः उद्दीपकत्वात् विप्रलम्भाख्यशृङ्गारस्योपस्कारकमिदं पद्यम् । अत्र राज्ञा स्वशक्तेः ख्यापनात् व्यवसायो नाम विमर्शसन्ध्यङ्गमुक्तं भवति यथाह धनञ्जयः “व्यवसायः खशक्त्युक्तिरिति” ।
अत्र एकदेशविवर्ति सावयवं रूपकमलङ्कारः, तल्लक्षणं यथा गङ्गाधरे-"य उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दानिश्चीयमानमुपमानतादात्म्यं रूपकम् । यत्र च क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषयके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन वर्तना-