पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७

पुटमेतत् सुपुष्टितम्

२१

 तत्र इह साक्षाद्दर्शनाद् पूर्वरागः "श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते।" तत्र च रागस्य सप्त दशाः प्रोक्ताः- अभिलाषश्चिन्ता स्मृतिः, गुणकथनोद्वेगसंप्रलापाश्चोन्मादः......इति ।

 अत्र च पूर्वरागे माञ्जिष्ठो राग:-

   मञ्जिष्टारागमाहुस्तद्यन्नापैत्यतिशोभते ।
   इन्दुमत्या यथाजस्य दमयन्त्या नलस्य वा ॥
तत्र च  "विप्रलम्भः पुनरपि प्रवासाख्यः शापजन्यः संभ्रमेण च ।
   प्रवासो भिन्नदेशत्वं कार्याच्छापाच्च सम्भ्रमादिति ॥"

 अत्र चतुर्थेऽके उर्वश्या सह विहरता पुरूरवसा उदयवती नाम विद्याधरकन्यका क्षणं दृष्टा, तत्कुपिता उर्वशी मित्रावरुणशापाच्च हतविवेका कुमारवनं प्रविष्टा अतः अत्र संभ्रमाच्च शापाच्च प्रवास इति । अत्र दिव्यः संभ्रमः तेन जातः प्रवासः । यथा "दिव्यनाभसमानुष्योत्पातजात् सम्भ्रमात्त्रिधा" इति । क्वचन हास्यश्चाङ्गरस:-"विकृताकारवाग्वेषचेष्टादेः कुतुकाद्भवेत् । हास्यो हासस्थायिभावः श्वेतः प्रमथदैवतः" विदूषकादिभिः सहायैः सार्धं हासः ।

रीतिः पाञ्चाली:-

 पदसङ्घटना रीतिरङ्गसंस्थाविशेषवत्-उपकर्त्री रसादीनाम् ।

पाञ्चाली:-वर्णैः शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ द्वयो वैदर्भीगौड्योः भिन्नैः वर्णैरित्यर्थः । आत्यन्तिकौजाः स्वभावलालित्यपूर्णैवर्णैः भिन्नो बन्धः इति ।

गुणो माधुर्याख्य:-"रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा। तथा गुणा" इति ।

माधुर्यं च:- चित्तद्रवीभावमयोल्हादो माधुर्यमुच्यते।
तत्र वर्णास्तु:-"मूर्ध्नि वर्गान्त्यवर्णेन युक्ताष्टठडढान् विना ।
  रणौ लघू च तद्व्यक्तौ वर्णाः कारणतां गताः।

एतादृशा वर्णाः माधुर्यव्यञ्जनायापेक्ष्यन्ते इत्यर्थः ।
"अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ॥ इति ।

 प्रस्तावना प्रयोगातिशयाख्या:-

   चित्रैः कायः खकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।
   आमुखं तत्तु विज्ञेयम् नाम्ना प्रस्तावनाऽपि सा॥
प्रयोगातिशया-यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते।

   तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा।।

 दूती चित्रलेखा निसृष्टार्था-

  कार्यप्रेष्येति दूतीलक्षणम् ।
निसृष्टार्थत्वं हि:-

   उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
   सुश्लिष्टं कुरुते कार्यं निसृष्टार्था तु सा स्मृता ॥ इति ।