पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७१

पुटमेतत् सुपुष्टितम्
१७३
चतुर्थोऽङ्कः।


भवतु । तावदादास्ये । (परिक्रम्य विभाव्य सास्रम्) कथं सेन्द्रगोपं नवशाद्वलमिदम् । तत्कुतोऽस्मिन् विपिने प्रियाप्रवृत्तिमागमयेयम् । (विलोक्य ) अयमासारोच्छलितशैलतटस्थलीपाषाणमधिरूढः -

आलोकयति पयोदान् प्रबलपुरोवातनर्तितशिखण्डः ।
केकागर्भेण शिखी दूरोन्नमितेन कण्ठेन ॥ १८ ॥


 अत्र सुकुमारताख्यो गुणः । स्तनांशुकम् कञ्चुकी ( Bodice or Say a Jumper here) यदाह कश्चन कविः "प्रायः कञ्चुकिकारं निन्दति शुष्कस्तनी नारी" इति । वंशस्थविलं वृत्तम् ॥ १७ ॥

 भवतु तत् स्तनांशुकमादास्ये । नवशाद्वलं स्तनांशुकं मत्वा तदादानप्रवृत्तत्वाद्राज्ञः अत्र भ्रान्तिमन्लङ्कारः । नैराश्यविधुरस्य राज्ञः ईषत्सन्तोषसूचकमिह भवतुक्रियापदम् | (परिक्रम्य विभाव्य तं सूक्ष्मतया विलोक्य सास्रमाह) कथमिति आश्चर्ये ।

 इदं नवशाद्वलं बालतृणप्रचुरा भूमिः सेन्द्रगोपम् इन्द्रगोपाख्यः कश्चन वर्षासमयोद्भवः कीटविशेषः तेन सहितं लक्ष्यते । तत् कुतः अस्मिन् विपिने वने प्रियायाः प्रवृत्तिं वार्ताम् आगमयेयम् लभेय । असम्भवा प्रियायाः उदन्तप्राप्तिः । यद्राजा स्तनांशुकममन्यत, यत् च ओष्ठरागरञ्जितः अश्रुबिन्दुभिः किर्मीरितं स्तनांशुकं मेने तत्तु रक्तवर्णैरिन्दुगोपकीटैः स्थले स्थले सनाथीकृता बालतृणप्रचुरा हरितभूमिरासीत् । अत्रापि राज्ञः भ्रान्तिः । प्रावृट्कालीनलात् हरिततृणैः आच्छादिता भूमिरासीत् तत्र चन्द्रगोपाः इतस्ततः बहवः आसन् । तत्र भ्रान्तो राजा भूमिं स्तनांशुकमकल्पत, इन्द्रगोपांश्च प्रेयस्या नयनाभ्यां निपततः ओष्ठरागेण मिश्रितान् अश्रुबिन्दून् परिकल्प्य, तत्स्तनांशुकमादातुं प्रवर्तमानः पश्चाच्च सेन्द्रगोपां भूमिं परिज्ञाय कथमिति चकितः प्रियोदन्तलाभोपायं विपिनेऽन्विष्यन्नुदास्ते ॥

 (विलोक्य ) अयं आसारो धारासम्पातः तस्य उच्छलितं यत्र तादृशः शैलतटः तत्रत्या स्थली अकृत्रिमा भूमिः तत्रस्थं पाषाणमधिरूढः शिखी-इति श्लोकेनान्वयः।

 आलोकयतीति-एतादृशः प्रबलः पुरोवर्ती वातः वायुः तेन नर्तितः शिखण्डो बर्हः यस्य तादृशः शिखी मयूरः केका मायूरी वाणी गर्मे मध्ये यस्य तेन दूरोन्नमितेन दूरतः उद्गतेन कण्ठेन पयोदान् मेघान् आलोकयति ।

 भावस्तु-अयं पुरो दृश्यमानः धारासम्पातसमुच्चलितशैलतटे शोभमानायां स्थल्यां पाषाणमधिरूढः प्रबलपवनवेगेनोच्चलितबर्हो मयूरः केकागर्भेण सोत्सुकेन अत एव दूरोन्नमितेन कण्ठेन मेघानालोकयति । मयूरदर्शनम् , शैले धारासम्पातः, केकाश्रवणम् इति सर्वाणि उद्दीपनानि ।

इयमार्याजातिः ॥ १८॥