पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७५

पुटमेतत् सुपुष्टितम्
१७७
चतुर्थोऽङ्कः

ध्यास्ते परभृता । विहगेषु पण्डितैषा जातिः । यावदेनां पृच्छामि ।

(अनन्तरे खुरकः)

विज्जज्झरकाणणलीणओ दुक्खविणिग्गहवाहुप्पीडओ।
दूरोसारिअहिअआणंदओ अम्बरमाणे भमइ गइन्दओ ॥
[विद्याधरकाननलीनो दुःखविनिर्गतबाष्पोत्पीडः।
दूरोत्सारितहृदयानन्दः अम्बरमानेन भ्रमति गजेन्द्रः॥२३॥]

 हेल्ले हेले !

परहुअ महुरपलाविणि कन्ती णंदणवण सच्छंद भमंती ।
जइं पइं पिअअम सा महु दिट्ठी ता आअक्खहि महु परपुट्ठी ॥२४॥
[परभृते मधुरप्रलापिनि कान्ते । नन्दनवने स्वच्छन्दं भ्रमन्ती ।
यदि परं प्रियतमा सा मम दृष्टा। तर्हि आचक्ष्व मम परपुष्टे ॥२४॥]


 अये इति विस्मये ! इयं पुरो लक्ष्यमाणा आतपान्तेन ग्रीष्मसमयावसानात् सन्धुक्षितः समुद्दीपितः मदः यस्याः सा विशिष्टमदोन्मत्ता परभृता कोकिला जम्बूवृक्षस्य विटपं शाखां अध्यास्ते । इह खलु जम्बूवृक्षे समासीना कोकिला । परैः रङ्गसाम्यात् काकैः भृता पोषिता इति परभृता अन्यपुष्टा कोकिला ।

 विटपमध्यास्ते अत्र “अधिशीङ्स्थासां कर्मेत्यनेन" अधियोगे द्वितीया । विहगेषु खगेषु एषा कोकिलानां जातिः पण्डिता पण्डा नाम धीस्तद्वतीत्यर्थः । चतुरेयं जातिरिति प्रश्ने हेतुः । यावत् अत एव एनां पृच्छामि क्व मे प्रियेति ।

 (अनन्तरे खुरकः नृत्यविशेषः “पटमञ्जरिरागसंयुतं यद्द्रुतमध्येन लयेन यत्प्रयुक्तम् । प्रतितालयुतं च नर्तनं तत्खुरकाख्यं मुनये शिवेन दत्तम्"-मुनये भरतायेत्यर्थः । अथवा केषांचन मते खुरकाख्यो गेयविशेषः” पूर्वपूर्वाक्षरत्यागे योऽन्यो वर्णचयः स चेत् । उत्तरोत्तरसंघादौ खुरकः परिकीर्तितः॥)

 विद्याधरेति-गजव्यपदेशेन स्वावस्थां प्रकाशयति । विद्याधरस्य कानने वने लीनः संचारी, दुःखेन विरहजन्येन विनिर्गतः बाष्पाणामश्रूणामुत्पीडो धारा यस्य सः, दूरेण उत्सारितस्त्यक्तो हृदयानन्दो येन एतादृशः गजेन्द्रः अम्बरमानेन आकाशवद् विशालपरिमाणेन उपलक्षितः सन् भ्रमति विहरति । अयमपि राजाऽतिविशालो प्रियाविरहदूनमानसः कानने इतस्ततः अटन् हतश्रीको भ्रमति । अम्बरमानेन अतिविशाल इत्यर्थः । उपलक्षणे तृतीया ॥ २३ ॥ हेल्ले हेले इति कोकिलां दृष्ट्वा सविस्मयानन्दे ।

 परभृत इति-अयि परभृते कोकिले ! अयि मधुरं प्रलपतीति तादृशि । कान्ते नयनानन्दकारिणि । नन्दनवने अमरनगरीस्थोपवने स्वच्छन्दं स्वेच्छानुसारं भ्रमन्ती सा मम परमत्यन्तं प्रियतमा त्वया दृष्टा चेत् हे परपुष्टे मम आचक्ष्व मह्यं निवेदयेत्यर्थः।