तदेवंगतेऽपि प्रियेव मञ्जुस्वनेति न मे कोपोऽस्याम् । सुखमास्तां भवती । साधयामस्तावत् । (उत्थाय द्विपदिकया परिक्रम्यावलोक्य च ) अये ! दक्षिणेन वनधारां प्रियाचरणनिक्षेपशंसी नूपुरशब्दः । यावदेनमनुगच्छामि । (परिक्रम्य )
पिअअमविरहकिलामिअवअणओ |
[प्रियतमाविरहक्लान्तवदनः |
जनकत्वात् शीतलत्वमेव । अधरमिवेत्यत्र श्रौती उपमा। प्रथमचरणस्य कृते अन्येषां हेतुत्वात् काव्यलिङ्गम् । मदान्धा इत्यत्र श्लेषः । तथा च प्रथमगतसामान्यस्य चरणत्रयगतविशेषेण समर्थनादर्थान्तरन्यासः । मालिनी वृत्तम् ॥ २७ ॥
तदेवमिति-तत् एवं गतेऽपि स्थितेऽपि तस्यामन्यपुष्टायां मत्प्रार्थनायाः उत्तरमदत्वैव प्रस्थितायामपि अस्यां मे कोपः न यतः सा मे प्रिया इव मञ्जु मनोहारी स्वनः यस्याः सा तादृशी अस्ति । मम प्रियासदृशी इयमपि कलकण्ठी अतः अपराधिनीमपि एनां क्षमे । भवती सुखमास्ताम् सुखेन वसतु इति । साधयामो गच्छामस्तावत् । नाटकादिषु साध्धातुर्गत्यर्थे ।
(उत्थाय द्विपदिकया गीत्या परिक्रम्य विलोक्याह) अये दक्षिणेन वनधारां वनस्य धारा पङ्किः तस्याः दक्षिणभागे प्रियायाश्चरणयोर्निक्षेपः न्यासः तं शंसति विज्ञापयति असौ तादृशः प्रियापादन्याससूचकः शब्द श्रूयते इति शेषः । यावदेनं शब्दं अनुगच्छामि । अत्र दक्षिणेन वनधारामिह दक्षिणेनेति एनप्प्रत्ययान्तत्वात् वनधारापदस्य “एनपा द्वितीया" इति सूत्रोक्तदिशा कर्मत्वम् । परिक्रम्य-
प्रियतमेति-प्रियतमया विरहो वियोगस्तेन क्लान्तं म्लानं वदनम् यस्य सः, अविरलानां सन्ततानां बाष्पाणां अश्रूणां जलेन आकुले पिहिते नयने यस्य तादृशः, दुःसहं असह्यं दुःखं तेन विसंष्ठुलं निम्नोन्नतं स्खलितं गमनं