पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८०

पुटमेतत् सुपुष्टितम्
१८२
विक्रमोर्वशीये

अहो जन्मविहङ्गमराज!
  पश्चात्सरः प्रतिगमिष्यसि मानसं त्वं
   पाथेयमुत्सृज बिसं ग्रहणाय भूयः ।
  मां तावदुद्धर शुचो दयिताप्रवृत्त्या
   स्वार्थात् सतां गुरुतरा प्रणयिक्रियैव ॥ ३१ ॥


जातं अवगमयितव्या ज्ञातव्या । भवतु तत्किन्तु यावदेते स्थानमिदं नापहन्ति तावदेतेभ्यः मत्प्रियायाः वार्ता यदि स्यात् संभवो ज्ञातव्येति भावः ।

 वलन्तिकया तदाख्यरागविशेषेण पूर्वप्रोक्तलक्षणेन उपसृत्य प्रियाप्रवृत्तिजिज्ञासया विहगान् उपसृत्य राजहंसराज आह-अहो जन्मना विहङ्गमाना राजन् ! खगराजेति भावः ।

 पश्चादिति-हे राजहंस ! त्वं यद्यपि मानसोत्कः असि तथापि मानसं तदाख्यं सरः प्रति पश्चात् गमिष्यसि । तत्पूर्वं तु पाथेयं पथि साधु पाथेयं मार्गे भोज्यं बिसं मृणालतन्तून् भूयः पुनर्ग्रहणाय आदानाय उत्सृज त्यज । अयं तु कविसमयो यत्ते मानसोत्काः राजहंसाः बिसं पाथेयमिति गृहीत्वा मानसं प्रति गच्छन्तीति वर्णयन्ति । यत्त्वया पूर्वं भोजनाय मृणालसूत्राणि गृहीतानि तानीह विहाय नवानि ग्रहीतुमर्हसि, अः अत्र त्वं किञ्चिद्विश्रम । सदृशवर्णनं यथा मेघदूते "मानसोत्काः । आकैलासाद्विसकिसलयच्छेदपाथेयवन्तः । सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥” इति । तत्रादौ च किं कर्तव्यमित्याह-अत्रान्तरे मां दयितायाः वल्लभायाः प्रवृत्त्या वार्ता विज्ञापनेन शुचः शोकादपारादुद्धर विमोचय । यतस्त्वया इतस्ततो भ्रममाणेन क्व मे प्रिया, कामवस्थां प्राप्ता इति सर्वं ज्ञातमेव स्यादतः तदीयवार्तानिवेदनेन गुरुतरशोकदूनमानसोऽहं शोकादुद्धरणीय इति भावः । आदौ प्रियाया उदन्तजातं विज्ञाप्य, शोकसागरान्मां तारयित्वा पश्चात्त्वं मानसं प्रति नवीनं बिसं पाथेयरूपेण गृहीत्वा गन्तुमर्हसि इति भावः । एतदर्थं समर्थयितुमर्थान्तरन्यासेनाह-सतां सत्पुरुषाणां प्रणयिनां अर्थिनां याचकानां वा क्रिया सहायता स्वार्थात् स्वलाभापेक्षया गुरुतरा एव । सज्जनानां स्वभावोऽयं यत्तेषां मनसि स्वकार्यापेक्षया परेषां कार्यसम्पादनम् अधिकं गौरवशालि वर्तते । स्वकार्यसंसाधनं गौणं मत्वा सज्जनाः अर्थिनां कार्यसम्पादने प्रथमं प्रवर्तन्ते इति भावः ॥ एतदेवाह "क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीवेति"।

 पद्यमिदम् राज्ञः परिस्थितिं वर्णयत् सहृदयानां हृदयद्रावकमिति स्वत एव विभावनीयम् । राजा इह वारंवारं पशुपक्षीन् याचते तेन इदमेव दृढतां प्राप्नोति यत् "कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु" । इदं च परं विप्रलम्भोपस्कारकम् । चतुर्थचरणस्य पूर्वोक्तवस्तुनः समर्थकत्वादर्थान्तरन्यासालङ्कारः । "सामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तदर्थान्तरन्यासः" इति । प्रसादाख्यो गुणः । अत्र वसन्ततिलका वृत्तम् ॥३१॥