पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८९

पुटमेतत् सुपुष्टितम्
१९१
चतुर्थोऽङ्कः।

 अत्र मधुकरेति सम्बोधनम् मधु करोतीति तच्छीलः कृञो हेतुरित्यनेन रप्रत्ययान्तम् विलक्षणसौन्दर्यसंयुतम् । अनेन कमलगतमधु अधिकं प्रेय उत प्रियामुखकमलमधु इति विवेचनशक्तिशीलत्वमस्य व्यञ्जनाय द्विरेफपुष्पलिड्भृङ्गेति पदानामवज्ञा । तेन तस्य भृशं भर्त्सनं भवति यत्त्वं मधुकरः सन् क्वचित् तस्या मुखनिश्वासगन्धं सेवित्वा कथं कमले रतिः करोषीति । अथवा मधुकरः सन् त्वं तन्मुखगन्धं विहाय अत्र रतिं विदधास्यनेन विज्ञाप्यते यत् न दृष्टा सा इति विशेषार्थः।

 मदिराक्षीति विशेषणप्रदानेन नतभ्रुवस्तस्याः चञ्चलतारकत्वं घूर्णितत्वं व्यजयन् मदिरासौरभ्यवत्तदीयमुखमस्तीति गम्यते । मदिराक्ष्याः लक्षणम्-"आघूर्ण्यमानमध्या या क्षामा चाञ्चिततारिका । दृष्टिर्विकसितापाङ्गमदिरा तरुणे मदे" इति भरतः । पुनरपि वरतनुरिति विशेषणेन वरितुं योग्या तनुर्यस्याः सा अनेन अवश्यं सेव्या सा इति वस्तु बोधयन् तदाश्रयस्त्वया परित्यक्तः इति विवेकश्रान्तं कृतमिति व्यङ्ग्यम् । यतः 'हेमन्ते ये न सेवन्ते तेषां जन्म निरर्थक’मिति सहृदयानां कान्तानुभवः।

 तस्या उच्छ्वासस्य सुरभित्ववर्णनान्नायिकायाः उत्तमत्वं पद्मिनीत्वं च गम्यते । अत्र च प्रीतिपदं विहाय रतिपदग्रहणेन रमणमिति ध्वन्यते ।

 पुनश्च पुण्डरीकपदप्रदानेन कमलस्य नितान्तं हेयत्वं प्रतिपाद्यते । मडि भूषायां पुडि चेति (भ्वा. प. से.) धातोः कर्करीकादयश्च ( उ. ४।२०।) इति सूत्रेण अरीकन्प्रत्ययान्तस्य पुण्डरीकपदस्य सिताम्भोजवाचकत्वात् परमसुन्दररक्तरङ्गहीनत्वात् रक्ताभावे कथं रतिर्योग्येति अर्थो बोध्यः । सितस्य चाम्बुजस्य कथं प्रीतिकारकत्वं न कथमपीति ज्ञेयम् , पुण्डरीकस्य सितत्वात् , सितस्य रङ्गहीनस्य नयनानन्दकाभावात् एतादृशि अपि अरोचके वस्तुनि तस्याः परमगन्धवन्तं मुखनिश्वासं समाघ्राय कथं प्रीतिर्भाविनी न कदापि किन्तु त्वं तु अत्रैव रमसे अनेन परिज्ञायते यत्सा त्वया न दृष्टेति भावः ।

 इत्थमत्र प्रतिपदं चमत्कारो दृश्यते । अत्र मधुकरस्य भर्त्सना परीवादो नाम नाट्यालङ्करणम्।

 अत्र च पुण्डरीकस्य सामान्योपमानस्यापेक्षया उपमेयभूतस्य तदाननस्य वैशिष्ट्यप्रतिपादनात् व्यतिरेकालङ्कारो व्यङ्ग्यः । अत्र मधुकरमदिराक्षीपुण्डरीकादिशब्दानां साकूतत्वात् साभिप्रायत्वाद्वा परिकरालङ्कारः “विशेषणैर्यत्साकूतैरुक्तिः परिकरः स्मृतः" पुनश्च यतस्त्वमत्र पुण्डरीके रज्यसि अतस्त्वया सा न दृष्टा इति द्वयोः वस्तुनोः साध्यसाधकत्वानुमानालङ्कृतिः । पूर्वार्धोत्तरार्धयोर्हेतुत्वात् काव्यलिङ्गम् । तस्या आननस्यालौकिकत्वप्रतिपादनानुदात्तालङ्कारश्च । “उदात्तं वस्तुनः सम्पत् महतां चोपलक्षणमिति" । तव रतिः किमभविष्यत् न कदापीति काकुः । प्रथमपादे उक्तस्य अथवेत्यनेन निषेधादाक्षेपालङ्कारश्चमत्कारी।