पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९०

पुटमेतत् सुपुष्टितम्
१९२
विक्रमोर्वशीये

 ( इति द्विपदिकया परिक्रम्यावलोक्य च ) अये ! करेणुसहायः नागाधिराजो नीपस्कन्धविषण्णस्तिष्ठति । यावदेनं गच्छामि ।

(कुलिका)-

 करिणीविरहसंताविअओ [ करिणीविरहसन्तप्तः।]

(मन्दघटी)-

काणणे गंधुद्धअमहुअरु [ कानने गन्धोद्धतमधुकरः॥४३॥]
 (अतोऽन्तरे विलोक्य ) अथवा नायमुपसर्पणकालः ।

अयमचिरोद्गतपल्लवमुपनीतं प्रियतमाग्रहस्तेन ।
अभिलेढु तावदासवसुरभिरसं शल्लकीभङ्गम् ॥ ४४ ॥


 अत्र च यदि त्वं अवाप्स्यस्तदा अभविष्यत् किमिति हेतुहेतुमद्भावे असंभाविनि अर्थे लङ् । अत्र औदार्यं नाम गुणः ।

 अत्र च मधुरताव्यञ्जकं मालिनी नाम छन्दः । ननमयययुतेयं मालिनी भोगिलोकैरिति लक्षणात् ॥ ४२ ॥

 (इति द्विपदिकया परिक्रम्य अवलोक्य च) अये इति विस्मये ! करिणीसहायः स्वप्रियतमासमेतः नागाधिराजो गजेन्द्रः नीपस्य धूलिकदम्बाख्यवृक्षविशेषस्य स्कन्धे निषण्णः समासीनः तिष्ठति विद्यते । यावदेनं गच्छामि। कुलिका गीतिविशेषः । मन्दघटी अपि तथा।

 करिण्या गजस्त्रिया विरहेण सन्तापितः गन्धेन गर्वेण उद्धृतः लिप्तः तथा मधु गृह्णन् गजो भ्रमतीति शेषः।

 "गन्धः सम्बन्धलेशयोः, गन्धकामोदगर्वेषु" इति हैमः ॥ ४३ ॥

 अत्र गजान्यपदेशेन स्वावस्थावर्णनपटुः अर्धोक्त एव अथवेत्यनेनार्थान्तरं उपस्थापयति अवसरमनुचितं वीक्ष्य अतः अन्तरे मध्ये विलोक्य (अथवा नाहं गमिष्यामि अयमुपसर्पणस्य तन्निकटगमनस्य कालः समयो न, तत्र गमनं नोचितमिति भावः।)

 अयमिति-अयं गजः प्रियतमायाः अग्रहस्तेन उपनीतमानीतम् अचिरेणोद्गतं नवोत्पलं पल्लवं यस्य तत् , आसवो मदिरा तद्वत् सुरभिः सुगन्धी रसः यस्य तादृशं शल्लकाख्यगजप्रियतरुविशेषम् तस्य भङ्गम् नवीनोद्भेदं अभिलेढु आस्वादयतु । प्रियतमया शल्लतकीतरोः नवोद्भेदमानीतम् तम् च स्वच्छन्दतया आस्वादने तत्र गत्वा अहं विच्छेदं कर्तुं नेच्छामि अन्यत्र गमिष्ये इति भावः । अत्र लिह् धातोर्लेटिप्रयोगः । “भंगस्तरङ्ग उद्भेदे" इति लोचनः । इयमार्या ॥४४॥